________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४ अध्यायः
सूत्रस्थानम् ।
३४६ तत्र श्लोकः। ऋतावृतौ नृभिः सेव्यमसेव्यं यच किचन ।
तस्याशितीये निर्दिष्टं हेतुमत् सात्म्यमेव च ॥ १७॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृत श्लोकस्थाने तस्या
शितीयो नाम षष्ठोऽध्यायः ॥ ६ ॥ सात्म्यशा इत्यर्थः । एवमामबानाञ्च । आमया अत्र धातुपम्यात्मका विकारा विपमवाय्वादयः, तदारब्धा ज्वरादयश्च । तेषां गुणगुणवीय्यप्रभावैविपरीतगुणं यत् खाद्य चेष्टितञ्चैव नान्यत् तत् सात्ममामयसात्मामिच्छन्ति सात्माशा इनि। तथा सति गुखयति । न बन्यथा ॥ १६ ॥
गङ्गाधरः-- अथाध्यायार्थमुपसंहत्त माह तत्र श्लोक इति । ऋताताविति प्रत्युतु। ननु प्रत्युत् सेव्यमसेव्यं नोक्तं कथमिति नाशङ्का विधिना प्रतिषधो हि लम्यते। तुमदित्युपपत्तिसहितम् आचित्यादिरूपेणेति ॥१७॥
अध्यायं समापयति...--अग्निवेशेत्यादि। प्राग्वद्याख्येयम् । इति श्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतरौ श्लोकस्थाने
तस्याशितीयाध्यायजल्पो नाम पष्ठशाखा ॥६॥ चामयहेतुरपि ग्रहीतव्यः, ततः आमयविपरीतानाम् आमयहेतुविपरीतानाञ्च तथा प्रभाववैपरीत्यात् तद्विपरीतार्थकारिणाञ्च ग्रहणं भवति, तदाहरणमिर यथावसरं निदाने करिष्यामः। आद्यग्रहणेनौषधाहारयोर्ग्रहणं, चेथितशब्देन स्वप्नाभ्यङ्गादीनां ग्रहणं व्याख्येयम् ॥ १६ ॥
चक्रपाणिः..उक्तमध्यायार्थमुपसंहरति---ऋतावित्यादि। अत्र हेमन्तेऽसेव्यं कण्ठरवेण यद्यपि न प्रतिपादितं तथापि स यदा नेन्धनं युक्त लभत इत्यभिधानादल्पभोजनपरिहार उक्त एव भवति ; तेन, ऋतावृताविति वीप्सा कृताऽथवती भवति ; यदि वा च्छत्तिणो गच्छन्तीति न्यायात् वीप्सोक्ता । हेमन्तपरिहारविधिवञ्च शिशिरपरिहारविधिर्व्याख्येयः । हेतुमदित्युपपत्तिमदौचित्त्यादिहेतुनिर्देशोपपन्नमित्यर्थः ॥ १७ ॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थान
व्याख्यायां तस्याशितीयो नाम षष्ठोऽध्यायः ॥ ६ ॥
For Private and Personal Use Only