________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३४८
चरक संहिता |
इत्युक्तमृतुसात्म्यं यच्चेष्टाहारव्यपाश्रयम् । उपशेते यदौचित्यादोकसात्म्यं तदुच्यते ॥ देशानामामयानाञ्च विपरीतगुणं गुणैः । सात्म्यमिच्छन्ति सात्म्यज्ञाश्चेष्टितञ्चाद्यमेव च ॥ १६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तस्याशितायः
गङ्गाधरः -- तस्य सात्म्यं विदितं चेष्टाहारव्यपाश्रयमित्यस्योपसंहारार्थमाह -इतीत्यादि । नन्वेतावतैव विधिना मात्राशिनः किं बलं वर्णः सुखमायुश्च वर्द्धते ? न तावद्वर्द्धते । यः पुरुषः स्वभावतः क्षीणदेहः क्षीणवलो वा क्षीणकफो वा तस्य चापरस्यान्यथात्मकस्य विभिन्नप्रकारस्यैकविधोपयोगे सात्मत्वाभावादित्यत आह उपशेत इत्यादि । इत्येवंप्रकारेण यच्चेष्टाहारव्यपाश्रयरूपमृतु ं प्रति सुखजनकतयोपयोगविधानमुक्तं तत्र यदाहाराचारविधानं यस्य पुरुषस्यौचित्यात् स्वप्रकृत्यनुसारेण विपरीततया सहात्मना शरीरेण समवेतत्वादुपशेते सुखयति तदोकादौचित्यात् सात्मामित्योकसात्मप्रमुच्यते ।
I
नन्वेवमस्तु कथमानुपदेशभवानां वानूपदेशवासिनां वा जाङ्गलदेशभवानां जाङ्गलदेशवासिनाञ्च एकमेव सात्म्यं भवति ? भवति चेदभ्यासाद्भवतु | सात्म्यन्तु कीदृशमित्यत आह--देशानामित्यादि । देशानामानपजाङ्गलसाधारणानां रौक्ष्यलाघवादिभिगो वस्निग्धवादिभिः स्त्रिग्धरुक्षगुरुलाघवादुत्रभयमित्रैर्विपरीताः स्निग्धगौरवादयो रौक्ष्यलाघवादयो रुक्षस्निग्धलघुगौरवाद भय मिश्रा गुणा यत्र गुणवीर्य्यविपाकप्रभावा यत्र तत् खाद्य चतुर्व्विधं यच्चेष्टितं चैव यत् स्वप्नतैलाभ्यङ्गादिकं तत् सात्मंत्र देशसात्म्यमिच्छन्त्यायुव्वेदविदः
For Private and Personal Use Only
चक्रपाणिः - उपसंहरति- इत्युक्तमित्यादि । ऋतुसात्म्यप्रसङ्गेनाभ्याससात्म्यं दर्शयतिउपशेते इत्यादि । उपशेते सुखयति, अपथ्यमपि सहिकारं न जनयति कुत इत्याहऔचित्यादभ्यासादित्यर्थः । अपमपि हि निरन्तराभ्यासाद्विषमिवाशीविषस्य नोपधातकं भवतीति भावः । देशसात्म्यं रोगसात्म्यञ्च दर्शयति- देशानामित्यादि । देशानामानूपादीनां गुणैः स्नेहगौरवादिभिः सह विपरीतगुणं स्नेहगौरवविपरीतगुणरौक्ष्यलाघवयुक्त धन्वजाङ्गलमांसमध्वादि ; अदनीयम् आद्यं चेष्टितञ्च व्यायामादि, देशसात्म्यमिच्छन्त्यायुर्वेदविद इत्यर्थः । एवमामयानाञ्च विपरीतगुणमित्यादि व्याख्येयम् । गुणशब्दश्चेह धर्म्ममात्रवचन:, यथोच्यते-" द्रव्यगुणः " द्रव्यधर्म इत्यर्थः तेन विपरीत प्रभावादीनामपि ग्रहणं भवति । आमयशब्देन
"
;