________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
चरक-संहिता। [दीर्घजीवितीयः समवायञ्च तज्ज्ञात्वा तन्त्रोक्त विधिमास्थिताः ।
लेभिरे परमं शर्म जीवितञ्चाप्यनित्वरम् ॐ ॥ द्रव्याणि विशेषात्मक कर्मा चेति । समवायञ्च सामान्यं विशेषञ्च ददृशुरित्यर्थः । अथ सामान्यादिकं षट्कं ददृशुः । प्रत्येकं भेदात् । तथा च चकारचतुष्कान्यतममाटत्ता चकारषटकं शेयं प्रत्येकप्रभेदमिथोभेदयोपिनार्थमिति, तन्न, द्रव्यगुणकर्मसमवायेभ्यः सामान्यविशेषयोरनतिरिक्तवात् तथा विवरीतव्यमुत्तरकालम् । द्रव्यस्य प्राधान्येऽपि यथास्वगुणसमुदायात्मकवख्यापनाय गुणानिति प्राग्द्रव्यादुपात्तमिति यत् तन्न, मूर्तःशानां द्रव्यत्वेन गुणातिरिक्तखात्। गुणकश्रियसख्यापनाय तु मध्ये तयो'व्यनिर्देशात्। ननु शास्त्रान्तरे द्रव्यादीनां ब्रह्मरूपतत्त्वज्ञानाद व्यवहारिकसकलतत्त्वज्ञानोपायः स्यात् तेन च नि श्रेयसाधिगमस्तेन परमपुरुषोऽतिरिक्तः पदार्थः ख्यापितो वैशेषिकन्याये कणाद तद्यथा। “अथातो धर्म व्याख्यासग्रामः॥१॥ यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्म ॥२॥ धम्मविशेषप्रसूतात्. द्रव्यगुणकर्मासामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधाभ्यां तत्त्वज्ञानानिःश्रेयसम् ॥” ४ ॥ इति । द्रव्यादीनां षण्णां पदार्थानां वस्तूनां साधर्म्यवैधाभ्यां विशिष्टानां यत्तत्त्वज्ञानं याथार्थेन शानं तदभ्युदयसिद्धिकारणकर्मजनितपुण्यवशात् धर्मविशेष मिथ्याशानादिनाशं सूते । तद्धर्मविशेषस्ताद द्रव्यादीनां षण्णां साधम्म्यवैधाभ्यां विशिष्टानां तत्त्वज्ञानानिःश्रेयस भवति । बन्धो हि पुरुषस्य यदा स्थूलरूपेणारम्भो भवति द्रव्यादिभिस्त्रिभिः समवेतैः तेषां तत्त्वज्ञानात् तदारब्धपुरुषस्य मिथ्याशानापायो भवति, मिथ्याशानापायादोषापायो, दोषापायात् प्रवृत्तापायः, प्रत्तापायाज्जन्मापायो, जन्मापायाद, दुःखापायो, दुःखापाये विद्योदयः । स च शानप्रकाशः । तस्मादपवर्गो भवतीति पुरुष एवाधिकरणमस्य शास्त्रस्येति शापितम्। आन्वीक्षिकीन्याये गौतमेनाक्षपादनाप्युक्तम्-“प्रमाणप्रमेयेत्यादीनां तत्त्वज्ञानानिःश्रेयसाधिगमः । दुःखजन्मप्रवृत्तिदोषमिथ्याशानानामुत्तरोत्तरापायादनन्तरापायेऽपवर्ग इति, तेनात्मादिषु ब्रह्मशानादात्मादिरूपेण शानस्य मिथ्याज्ञानसापायानिःश्रेयसे प्राप्त तूत्तमपुरुषत्याह सामान्यञ्चत्यादि। तेषाञ्चोत्तरत्र लक्षणं षष्णां पदार्थाना बिश्वरूपाणां भविष्यति, तेनैतत् तत्रैव व्याकरणीयं, तदिति सामान्यादि। तन्खोकं विधिमित्यपथ्यपरिहारपथ्योपादानरूपं, शर्म सुखं, परमिति दुःखानाक्रान्तं, अनश्वरमित्यगत्वरम् ॥९॥ • भमश्वरमिति चक्रः।
For Private and Personal Use Only