________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ममध्यायः]सूत्रस्थानम् ।
२३ ऋषयश्च भरद्वाजाजगृहुस्तं प्रजाहितम् । दीर्घमायुश्चिकीर्षन्तो वेदं वर्द्धनमायुषः॥८ तेनर्षयस्ते छ ददृशुर्यथावज्ज्ञानचक्षुषा ।
सामान्यञ्च विशेषञ्च गुणान् द्रव्याणि कर्म च ॥ नन्वङ्गिरःप्रभृतीनां भरद्वाजादायुर्वेदग्रहणं किं स्वस्खोपकाराय कि परोपकाराये. त्यत आह - प्रजाहितमिति। ग्रहणक्रियायुवेदयोर्विशेषणतयैव योज्यमेतत् प्रजाहितपदम्। किं केवलं प्रजाहितमायुर्वेदं जगृहुरित्यत आह, दीर्घमायुरित्यादि। ननु दीर्घमायुश्चिकीर्षन्तो महर्षयः कथं प्रजाहितमायुवेदं जगृहुस्तेन तेषां कि स्यादित्यत आह, आयुषो वर्द्धनमिति । वेदमायुर्वेद पदार्थाख्यतत्रयुक्त्या तत्परतालाभाद वेदपदस्य अथवायुष इति पदं वेदपदवद्धनपदाम्यां योज्यम् ॥ ८॥
गङ्गाधरः अथायुव्वेदाध्ययनेन शानचक्षुषा । ज्ञानं निश्चयात्मकं युक्तं चक्षुर्शानचक्षुस्तेन ददृशुः। किमितत्राह - सामानामित्यादि। सामान्यश्च विशेषञ्चेति चकारद्वय मिथो भेदार्थम् । गुणादिभिस्त्रिभिः सह प्रत्येकमन्वयार्थन्तु कर्म चेति चकारः। समवायस्य सामान्यविशेषाभ्यां सहान्वयार्थ समवायञ्चेति चकारः। सामान्यविशेषाभ्यां सह प्रत्येकमन्वितगुणद्रव्यकर्मभ्योऽपि भेदाख्यानाय च। तेन सामान्यं सामान्यस्वरूपान् गुणान् सामान्यरूपद्रव्याणि सामान्यभूतं कर्म च। विशेष विशेषात्मकगुणान् विशेषात्मकानि तन्मनाश्च, मुनिश्च, तेनानन्तपारमपि आयुर्वेद हेत्वादिस्कन्धनयमालम्बनं कृत्वा यथावदायुर्वेदमचिरादेव प्रतिपक्षवानित्यर्थः । अचिरादित्यचिरेण । अत्र च यथा ब्रह्मा त्रिसूत्र बुबुधे, यथा चेन्द्रो हेतुलिङ्गोषधज्ञानं प्रोवाच, तथैव भरद्वाजोऽपि त्रिस्कन्धं बुबुधे, इत्यनेनायुर्वेदस्वाविप्ल तागम उपदश्यते, तेन त्रिसूत्रत्रिस्कन्धयोन पुनरुक्रिः। तेनेति इन्द्राद गृहीतेनायुर्वेदेन। अमितमिति अमितमिवामितमतिदीर्घत्वात्। आयुःशब्दश्चायुःकारणे रसायनज्ञाने बोद्धव्यः, येनोत्तरकालं हि रसायनोपयोगात् अयं भरद्वाजोऽमितमायुरवाप्स्यति, न ऋषिभ्य आयुर्वेदकथनात् पूर्व, येनायुग्वदमधीत्यानन्तरमेवायं तमृषिभ्यो दत्तवान् न पूर्व रसायनमाचरति स्म ; किंवा सर्वप्राण्युपकारार्थाधीतायुर्वेदजनितधर्भवशात् तत्कालमेवामितमायुरालेभे भरद्वाज इति बोद्धव्यम् । तच्चति श्रुतं, यदा तमिति पाठः, तदा तमायुर्वेदं ; अनवशेषयन्निति का स्नेनेत्यर्थः । दीर्घमायुश्चिकीर्षन्त इति प्राणिनामात्मनश्च ॥८॥
चक्रपाणिः-ज्ञानार्थ ज्ञानरूपं वा चक्षुः ज्ञानचक्षुः तेन ज्ञानचक्षुषा ; आयुर्वेदेन किं दाशुरि* महर्षयस्ते इति चक्रः
For Private and Personal Use Only