________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता।
[दोघजीवितीय तेनायुरमितं लेभे भरद्वाजः सुखान्वितम् ।
ऋषिभ्योऽनधिकं तन्तु ॐ शशासानवशेषयन् ॥ यथाविधि उपदिष्टं बुबुधेऽधीतवान् । अनन्तपारमप्यायुव्वेदं त्रिस्कन्दरूपेणान्तपारशालितया शातुं शक्नोति । यथामति कालाधिक्याल्पताभ्यामिति सूचितम् । भरद्वाजस्तु महामतितन्मनस्वाभ्यामचिरात् बुबुधे। तादृशोप्यपरोऽचिराज्शातु शक्रोति । अतादृशस्तु चिरेण शक्नोति वा न वेति भावः । ननु काव्याद्यनुशासनादिशास्त्रेण स्ववाच्यज्ञानं जन्यते यथा तथाऽनेनापि, कथमस्य पुण्यत्वं शाश्वतत्वश्चोच्यते, इत्यतस्तत्फलमाह---तेनायुरित्यादि। पुण्यं यस्मादायुस्तस्मात् पुण्यजनकखादायुर्जनकोऽयमायुर्वेदः। पुण्यजनकश्चायं शश्वता परमेश्वरेण पोक्तवात्। यथा त्रयी। तेनेति-यथा अमितमपरिमितमसङ्घाकमिति यावत् । सुखान्वितमिति। लाभक्रियायाः कर्म, आयुरित्यस्य विशेषणं, तेन सुखममितञ्चायुः सुखान्वित यथा स्यात्तथा लेभे। सुखखश्चायुषो भरद्वाजस्यामितायुर्लाभे यावज्जीव स्वास्थ्यलाभेन च तपोनिर्विघ्नखजनकखादस्यायुव्वेदोपदेशेन पुनः शरीरिणां स्वास्थ्यसंस्थाप्यव-व्याधिप्रशाम्यवाभ्याश्च बोध्यम्। सज्जनानां हि परोपकारे सुखातिशयः स्यादिति। ननु भरद्वाजस्यैवामितायुलाभोऽभूत्परोपकारिखश्च स्यादगिरःप्रभृतीनां तन्नियोक्तणां किं तन्नियोगमात्रं न चान्यत् किश्चित् फलं लब्धमभूदित्यत आह-ऋषिम्य इत्यादि । तु पुनर्भरद्वाजो न केवलं मुखान्वितं यथा स्यात् तथाऽमित सुखान्वितमायुले भे। ऋषिभ्यश्चाङ्गिरःप्रभृतिभ्यश्च तथायुर्वेदमनधिकं त्रिसूत्रमेव नाधिकं कृखाऽनवशेषयन् सावशेषञ्च न कृखा यथाधीतमिति यावत् । शशासाध्यापनेन ददौ। अध्यापनेन दानं दर्श यति;-ऋषयश्चेत्यादि। ननु ऋषीणामेतद्हणोपदर्शनेन शशासेत्यनेन भर द्वाजस्य ऋषीन् प्रति आयुर्वेदवाचनामात्रार्थलाभः स्यात् न खध्यापनेन दानार्थलाभ इति चेन्न । ग्रहधातोः प्रधर्षणपूर्वकग्रहणार्थे द्विकर्माकखादत्र तदभावादनुग्रहेण दत्तस्य स्वीकारार्थखात् भरद्वाजादित्यस्यापि ध्रुवखादपादानवमिति । रपि नदीकुलयोर्विवक्षावशाद्वत्तते; किंवा अनन्तो मोक्षः पारमुत्कृष्टं फलं यस्यायुर्वेदस्यासावनन्तपारः, वक्ष्यति हि "चिकित्सा तु नैष्ठिकी या विनोपधाम्" इति अन्न नैष्ठिकी मोक्षसाधनहेतुः । खयो हेत्वादयः स्कन्धरूपा यस्य स त्रिस्कन्धः, स्कन्धश्च स्थूलावयवः प्रविभागो वा, तत्र वायुर्वेदग्रहणे मनो यस्य स तम्मनाः, मननात् ज्ञानप्रकर्षशालित्वात् मुनिः। एतेन यस्मादयं महामतिः,
* तच्चेति चक्रः।
For Private and Personal Use Only