________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
सूत्रस्थानम् ।
२१ सोऽनन्तपारं त्रिस्कन्द * मायुर्वेदं महामतिः।
यथावदचिरात् सव्वं बुबुधे तन्मना मुनिः॥ । प्राणिनां परिहायोपदेक्ष्यमाणानि सन्ति न तु प्रयोक्तव्यतयोपदेश्यन्त इति, सन्त्यपि न सन्तीति बोध्यम् । ननु ब्रह्मणा प्रोक्त मरणादिसूचकायुर्वेदं विहाय किमल्पैः पदैरसम्पूर्ण शक्र एवेदशायुर्वेदं भरद्वाजाय प्रोवाचेत्याशंक्याह, त्रिसूत्रमित्यादि। पितामहो ब्रह्मा त्रिसूत्रं हेतुलिङ्गौषधानि त्रीणि सूत्रान्ते येन यत्र बेति त्रिसूत्रमायुर्वेदं स्वस्थातुरपरायणं हेतुलिङ्गौषधशानम अत एव त्रिसूत्रमायुव्वेदं तस्मै प्रोवाचेत्युभयत्र योजनीयम् हेखित्यादि पुण्यान्तम् । शाश्वत नित्यम् । नित्यखञ्चास्य स्वयमेवाथै दशमहामूलीये प्रतिपादयिष्यते । शाश्वतमिति तु हेतुः। पुण्यं जन्यतयास्त्यस्येति पुण्यवन्तं पुण्यजनकमिति यावत् । शाश्वतमित्युक्त्या यं बुबुधे इत्युक्त्या चायुर्वेदस्य योगध्यानाभ्यासादिवोद्धादिप्रकाशकश्च ब्रह्मा न तु कति ख्यापितम् ॥७॥ ..
गङ्गाधरः--ननु शक्रस्तस्मै प्रोवाच स चाध्येतुं शक्नोति वा न वेत्यप्त आह ;-सोऽनन्तेत्यादि। सोऽपि भरद्वाजो महामतिर्मु निस्तन्मनास्तत्रायुवेदै ग्रहणार्थ मनोऽनन्यविषयकधीधारणेनैकाग्रचित्तं यस्य स तादृशः सन् सर्वं निरवशिष्टं तं त्रिस्कन्दं त्रिसूत्रं त्रीणि हेतुलिङ्गौषधानि स्कद्यन्ते गम्यन्ते येन यत्र वेति त्रिस्कन्दं त्रिसूत्रमिति यावत् । अनन्तपारं न न्तोऽन्तः शेषः पारः परतटश्च एतौ यस्य तं तथा। अन्ताभावः पाराभावे हेतुः। अचिरादतिशीघ्र यथावदमूलानां ज्वर एको हि लक्षणं । विषमारम्भमूलाच ज्वर एको निगद्यते ॥” इत्यादि। औषधग्रहणेन च सर्वपथ्यावरोधः, शरीरश्चात्र हेतौ लिङ्गे चान्तभवति, सुस्थातुरयोः परमुत्कृष्टमयनं माग इति सुस्थातुरपरायणम्। .
किमन्योऽयं हेतुलिङ्गौषधज्ञानरूप आयुर्वेदो ब्रह्मवुद्धादायुर्वेदादतानन्यः ? इत्यत आह त्रिसूत्रमित्यादि।-पितामहोऽपि यं त्रिसूत्र बुबुधे, तमिन्द्रः प्रोवाच ; त्रीणि हेत्वादीनि सूत्यून्ते यस्मिन् येन वा तत् त्रिसूत्र, तत्र सूचनात् सीवनात् सूत्रणाच्चार्थसन्ततेः सूत्र, एतेन तं यथा ब्रह्मा त्रिसूत्र बुबुधे तथैव तं हेतुलिङ्गौषधज्ञानमिन्द्रः प्रोवाचेत्यविप्लु तमागमं दर्शयति ; बुबुध इति न कृतवान्, अतएवोक्त शाश्वतं नित्यं इत्यथः, तच्च नित्यत्वं सूत्रस्थानान्ते व्युत्पादनीयम् ॥७॥
चक्रपाणि:-अथोहिष्टमायुर्वेदं कथं गृहीतवान् भरद्वाज इत्याह। सोऽनन्तेत्यादि।-अविद्यमानावन्तपारौ यस्यासावनन्तपारः, अत्र पारशब्देन गोबलीवहन्यायेनादिरुच्यते, पारशब्दो छु भयो
त्रिस्कन्भमिति चक्रः।
For Private and Personal Use Only