________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वरक-संहिता |
हेतुलिङ्गौषधज्ञानं स्वस्थातुरपरायणम् । त्रिसूत्र शाश्वतं पुण्यं बुबुधे यं पितामहः ॥ ७
[ दीर्घजीवितोय;
वीजमित्यनर्थान्तरम् । स च द्विविधः - उपयोगिहेतुरुत्पादकश्च । तत्रोपयोगिहेतुः प्रयोजनीभूतयोर्धातुसाम्यरक्षणकरणयोर्व्विषये यस्योपयोगिता । स च द्विविधः । आधारभूतः सहकारी च हेतुः । तत्राधारः शरीरं मनश्च । सहकारी पुनः शरीरादिविशेषज्ञानमुत्पादकश्च हेतुरिति द्विधा । तत्रोत्पादको द्विधा समवायी निमित्तरूपश्च । तत्र समवायी च द्विविधः । चेष्टावान निश्चेष्टश्व । चेष्टावान् द्रव्यरूपो वातादिः । निश्चेष्टो गुणरूपो दोषदृष्यस्थानसंयोगादिः । निमित्तरूपश्च दण्डादिः । लिङ्ग' तद् येनोपलभ्यते । औषधं गुणवच्चतुष्पादरूप, तेषां ज्ञानं तानि ज्ञायन्ते येन तत् । ननु सुखहेत्वादिज्ञानरूपायुव्वेदवत् दुःखहेखादिज्ञानमप्यायुर्वेदरूपं किं न वा तद्ध तुलिङ्गौषधज्ञानखादित्याह स्वस्थातुरपरायणमिति । स्वस्थो धातुसाम्यवान् । आतुरो धातुवैषम्यवान् । तयोः परमुत्कृष्टमायनमागमनं येन तत् तथा । वस्तुतस्तु स्वस्थातुरपरायणमिति, स्वस्थे चातुरे च परं तत्परं तात्पय्र्यवद्विवक्षितमयनं गतिवर्त्म | स्वास्थ्यरक्षणातुर्य्य निवृत्तिरूपप्रयोजनसाधनोपदेशरूपमित्यर्थः । स्वस्थस्य चातुरस्य चेति करणे तु स्वास्थ्यहेतुलिङ्गौषधशानमातुय्य हेतु लिङ्गौपधशानमुपदेशरूपमायुर्वेदं बुबुधे इति लभ्यते । तथात्वे हि शारीरारिष्टादिज्ञानार्थमुपदेशस्यावैयर्थ्यं स्यात् तस्मात् स्वस्थातुरपरायणमित्येवोक्तम् । एतेनायुर्वेदस्य स्वास्थ्यरक्षणातुर्य्यशान्तिसाधन हेतुज्ञानलिङ्गज्ञानोषधशानकरणयावद्वस्तूपदेशवाक्यात्मकाथर्व्व वेदत्वमुक्तम् । मारणादिक्र कर्मादीनामुपदेशवाक्यात्मकाथव्यवेदत्वञ्च वारितम् । तथा चायुवेदे मारणोच्चाटनस्तम्भनमोहनबन्ध्याकरणगर्भपातनादीनां हेतुलिङ्गौषधानि
वाचेति भावः, मतिश्च बहुविषयत्व नोपचाराद्विपुलेत्युच्यते सा च मतिः शुश्रूषा श्रवणग्रहणधारणोहापोहतत्वाभिनिवेशवतीह विपुला वोद्रव्या, अत्र च इन्द्रेण दिव्यदृशा भरद्वाजाभिप्रायमप्रत एव बुद्धा आयुर्वेद उपदिष्टः, तेन भरद्वाजस्य इन्द्रपृच्छादि इह न दर्शितं, किंवा भूतमपि इन्द्रपृच्छादि ग्रन्थविस्तरभयादिह न दर्शितम् ॥
For Private and Personal Use Only
यादृशोऽसावल्पपदैरुपदिष्ट आयुर्वेदस्तमाह हेतुलिङ्गौषधज्ञानमिति । - हेत्वादीनि ज्ञायन्ते अनेनेति हेतुलिङ्गौषधज्ञानं यावच्च आयुर्वेदवाच्यं तावद्धत्वाद्यन्तभू तमित्यथः ; हेतुग्रहणेन सन्निकृष्टविप्रकृष्टब्याधिहेतुग्रहणं, लिङ्गग्रहणेन च व्याधेरारोग्यस्य च कृत्स्नं लिङ्गमुच्यते, तेन म्याभ्यारोग्ये अपि लिङ्ग शब्दवाच्ये, यतस्ताभ्यामपि हि तलिङ्गमेव वक्ष्यत्ति, " विषमारम्भ