________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
१६
सूत्रस्थानम्।
१६ स शकभवनं गत्वा सुरर्षिगणमध्यगम् । ददर्श. बलहन्तारं दीप्यमानमिवानलम् ॥ सोऽभिगम्य जयाशीर्भिरभिनन्य सुरेश्वरम् । प्रोवाच भगवान् धीमान् ऋषीणां वाक्यमुत्तमम् ॥ व्याधयो हि समुत्पन्नाः सर्वप्राणिभयङ्कराः। तद ब्रूहि मे शमोपायं यथावदमरप्रभो ॥६ तस्मै प्रोवाच भगवानायुर्वेदं शतक्रतुः ।
पदैरल्पैर्मतिं बुध्वा विपुलां परमर्षये ॥ गङ्गाधरः-ननु भरद्वाजः शक्रोपगमनं कथ चकार तदाह , स शक्र - त्यादि । सुराणां देवानामृषिगणः सुरर्षिगणस्तस्य मध्यग बलहन्तार बलनामासुरारि शक्रमिति यावत् । एतेन प्रजाविघ्नकरहन्तृत शक्रस्य दर्शितम् । दीप्यमानमिति । कृततपस्त्वेन प्रसिद्धतेजोभिरिति शेष इति सूचयितुमनलस्य न किश्चिद्विशेषणमुक्तम् । तस्य प्रसिद्धतेजस्वात् । एतेनानलवत् प्रसिद्धतेजस्वित्वेन शक्रस्य दर्शनात । भरद्वाजस्य क्रियबाणतपसा जायमानतेजस्वित्वेन ब्राह्मणजातिमत्त्वेऽपि डपाध्यायशिष्यभावयोग्यतोक्ता । “तपसस्तेजसा दीप्ता हूयमाना इवामयः” इत्यनेन महषीणां तपस्योत्पद्यमानतेजस्ववचनात् । शक्रसदनं गत्त्वा इन्द्रं दृष्ट्वा किं चकार तदाह-सोऽभिगम्येत्यादि। आशीः शुभचिन्तासूचनवाक्यं जयेतिरूपम् वाक्यमाह, व्याधय इत्यादि । सर्वप्राणीति । स्थावरजङ्गमानां सर्वप्राणभृताम् । हि यस्मात् तस्मात ॥६॥
गङ्गाधरः --इति भरद्वाजवचनं श्रुत्त्वा शक्रः किं चकार तदाह ; तस्मा इत्यादि । शतक्रतुः शक्रः। पदैरल्पैरिति अल्पाक्षरमयवाक्यप्रयोगेण विपुलां भरद्वाजस्य मतिं बुद ध्वा तस्मै भरद्वाजाय परमर्षये प्रोवाच अध्यापनव्यापारण ददौ । कीदृशरूपमायुर्वेदं प्रोवाचेत्यत आह–हेखित्यादि । हेतुरिति-हेतुः कारणं तमाशगत इत्यर्थः । नियोजित इति चौरादिकोणिच्, न हेतो, अनेन प्रकरणेन भरधामस्यायुगमे विशेषेणार्थित्वात् न प्रेरणमिति दर्शितं भवति ॥५६॥
चक्रपाणिः-प्रोवाचेति सम्यगुवाच, न तु प्रशब्दः प्रपश्चार्थः पदैरल्पैरित्युक्तत्वात् ; कमात् पदैरल्पैरवाचेत्याह मतिं बुद्धा विपुलामिति, यस्माद्विपुलमतिं भरद्वाजं प्रतिपक्षधान समात् परल्दै.
For Private and Personal Use Only