________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [दोर्ष जीवितीयः अथ ते शरणं शक्र ददृशुानचक्षुषा। स वक्ष्यति शमोपायं यथावदमरप्रभुः॥४ कः सहस्राक्षभवनं गच्छेत् प्रष्टुं शचीपतिम् ॥ अहमर्थे नियुज्येऽयमति प्रथमं वचः ।
भरद्वाजोऽब्रवीत् तस्मादृषिभिः स नियोजितः ॥५ गङ्गाधरः-ननु ध्यानधारणेन किमभूदित्याह ;-अथेत्यादि। अथ ध्यानावस्थानानन्तरं ते ध्यानस्था अङ्गिर प्रभृतयो महर्षयः शक्र मघवानं शरणं ध्यानचक्षुषा चिन्ताशालिमनसा निश्चयबुद्धिलक्षणचक्षुषा ददृशुः। ननु शक्र शरीरिणां विघ्नसमुत्पत्तो शरणत्वेन यद ध्यानचक्षुषा ते महर्षयो ददृशुस्तत् किं शक्रः शरीरिणां चिकित्सया विघ्नभूतरोगोपशमं करिष्यति . उतान्यथा वेत्यत आह, स वक्ष्यतीत्यादि। स शक्रश्चिकित्सया न शरीरिणां विघ्नभूतरोगोपशमं करिष्यति, किन्तु यथावत् यथारिधिना व्याधेः शमोपायं वक्ष्यति। इत्थमेव शक्र शरणं ददृशुरिति भावः॥४॥
गङ्गाधरः-अथ मुनयः किं चक्रुरिति महषीणां तत्र कृतेतिकर्तव्यतामाह-कः सहस्राक्षेत्यादि । शचीपतिरित्यनेन शचीसिक्तरेतसमपि शक्र सर्वलोकपालकखादुपासितुमर्हतीति सूचितम् । सर्वेषु महर्षिषु परस्परं भाषमाणेषु प्रथमं भरद्वाजस्तान् महर्षी न् अत्रार्थेऽस्मिन् प्रयोजनेऽयमहं नियुज्ये भवद्भिरिति वचो यस्मादब्रवीत् तस्माद्भरद्वाज ऋषिभिरङ्गिरःप्रभृतिभिर्नियोजितःप्रेरित इति । ऋषिप्रोक्तो भरद्वाज इति यत् पूर्वमुक्तं तत्र ऋषिप्रोक्तिविवरणमेतबोध्यम् ॥ ५॥ सामान्येनाभ्युदयवाचिना धर्मादयोऽभिधीयन्ते, जीवितशब्देन च जीवितं, यतो जीवितं स्वरूपेगैध सम्बप्राणिमा निरुपाध्युपादेयं, वचनं हि " आचक्रिमेव च ब्रह्मण इयमात्माशीरायुष्माणभूयांसम्" इति यत्त्वत्यन्तदुःखगृहीतस्य जीवितं जिहासितं, तत्र दुःखस्यात्यन्तजिहासितस्यान्यथाहातुमशक्यत्वात् प्रियमपि जीवितं त्यक्तुमिच्छति न स्वरूपेण । अन्तराय इति धादिसाधने बोद्धन्यः । अयमिति रोगप्रादुर्भावरूपः, तेषामिति रोगाणां, शरणमिति रक्षितारं, शक्तत्वाच्छक उच्यते, ध्यानं समाधिविशेषस्तदुपलब्धिसाधनत्वात् चक्षुरिव ध्यानचक्षुः, तेन “स वक्ष्यति शमोपा यथावदमरप्रभुः" इति च ध्यानचक्षुषा ददृशुरिति योजना ॥ ३॥४॥
चक्रपाणिः-अथैतेषु मध्ये भरद्वाजः कथमिन्द्रमुपागत इत्याह क इत्यादि।-शचीपतिमित्य. नेम शचीसम्भोगन्यासक्रमपि अहमुपासितुं क्षम इति भरद्वाजो दर्शयति, अर्थे प्रयोजने, नियुज्ये पापाग्येयं, भन्न प्रकृते, अनतिशब्दो यमादर्थे, यथा “सुभिक्षमित्यागतः" यस्मात् सुभि
For Private and Personal Use Only