________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः]
सूत्रस्थानम् । प्रादुर्भतो मनुष्याणामन्तरायो महानयम्।
क्रः स्यात् तेषां शमोपाय इत्युक्त्वा ध्यानमास्थिताः॥३ मोक्षे सुखाभावात् । मूलमादिकारणम् । तच्चादृष्टमपि तद्वारणायाह, उत्तममिति । -सत्यपि जीविनामदृष्टे मानुषिकादिशरीरिखाभाबे पारलौकिकशरीरित्वे धर्मादयो यस्मानोत्पद्यन्ते तस्मादारोग्यं मानुषिकादिकर्मकारिशरीरिव्याधिविरहः । सत्यपि व्याधितमनुष्यादीनामदृष्टे धर्मादयो नोत्पपद्यन्ते रुजाकुलेन्द्रियवप्रतिबन्धनात् । धादिषु आरोग्यमूलवं दर्शयितुमाह, रोगा इति । तस्य श्रयसः श्रयोन्तस्य , अन्तशब्दलोपादिह धर्मादिचतुष्कस्येत्यर्थः । यद्वा सामीप्येन गङ्गायां घोषवत् धर्मादिषु चतुर्यु लक्षणा। अथवा प्रशस्यशब्दात् ईयमुना श्रेयःशब्दस्य प्रशस्ततमानां बोधकखात् प्रशस्ततमा धर्मादयश्चवारो लभ्याः। तत्रापि मोक्षस्य प्रशस्ततमत्वेन श्रेयःशब्दाभिधेयवं योगरूढिटत्ता बोध्यम् । यद्वा तस्येत्यारोग्यस्येति योज्यम् । न केवलं रोगा धर्माद्यपहारस्ततोऽधिक दोषशालिनोऽपीत्याह, जीवितस्य चेति। यद्वा रोगावसाने धर्मादयः स्युरित्याह । एतेनैतदुक्तम् । स्वयं रोगशमनं न स्याद्विना भेषजेन, यदि वा स्यात, आयुः परिहीयते, यावता कालेन हि स्वयं वा चिकित्सया वा रोगशान्तिर्भविता, तावत्कालन्तु न धर्माद्यर्थः स्यात् । यदि वा तेन व्याधिना मृत्युः स्यात् तदा तज्जन्मनि न स्युरेव धर्मादयः। किञ्च व्याधीनां चिरसत्त्वेन दुर्बलेन्द्रियबादायुःक्षयादयश्च स्युरित्यतः शरीरिणामारोग्यं रोगानुत्पत्तात्पन्नव्याधिशान्त्यन्यतरत् धादिषु निदानमिति। मनुष्याणां महानन्तरायो महान् विघ्नो रोगरूपः प्रादुर्भूतः। तेषां रोगार्तमनुष्याणां कः शमोपायो विघ्नोपशमकारणं स्यादित्युक्त्वा ते महर्षयोऽङ्गिरःप्रभृतयो ध्यानमास्थिताश्च युजानबुद्धिमखात् । युक्तशानं हि ध्यानधारणं नापेक्षते ॥३॥ उत्तममिति प्रधान, तेनारोग्यं चतुम्वर्गे प्रधान कारणं, रोगगृहीतस्य क्वचिदपि पुरुषार्थेऽसमर्थत्वादित्युक्त, तस्यापहर्तार इति आरोग्यस्यापहर्तारः, इदमेव च रोगाणामारोग्यापहरणं यदनथस्य लाभः, न पुनरुत्पनो रोगः पश्चादारोग्यमपहरति भावाभावयोः परस्पराभावात्मकत्वात्, श्रेयसः जीवितस्य चेति श्रेयोवज्जीवितं हितत्व न सुखत्वेन चार्थे दशमहामूलीये वक्ष्यमाणं, तस्य जीवितस्यापहार इति योजयति, अश्रेयः जीवितमहितत्व न दुःखहेतुतया चानुपादेयमिति कृत्वा तदपहरणमिह नोक्त। अत्र सुखहितजीवितोपघातो धर्मोपघातेनैव लब्धः, तेन वयं पश्यामः-श्रेयाशब्देन
For Private and Personal Use Only