________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४६
चरक-संहिता।
[ तस्याशितीयः दिवा सूर्य शुसन्तप्त निशि चन्द्रांशशीतलम् । कालेन पक्व निर्दोषमगस्त्येनाविषीकृतम् ॥ हंसोदकमिति ख्यातं शारदं विमलं शुचि।
शरदि जलप्रयोगविधानार्थ प्रशंसनमाह-दिवेत्यादि । दिवापदेन मूयांशुतापे लब्ध पुनः सूर्यांशुपदं मेघाच्छन्नखाभावप्रदर्शनार्थम् । मेघाच्छन्ने तु दिने तथासंस्काराभावात् । मूयांशुपदेन दिवालामे पुनदिवापदं सकलदिनं व्याप्य सूय्यांशुतप्तवज्ञापनाथम् । सूयसन्तप्तभित्युक्त्या तथाखसिद्धौ यदंशुपदं तदत्यन्ताव्याहतांशुज्ञापनार्थम् । निशि चन्द्रांशुशीतलमित्यप्येवं व्याख्येयम् । वस्तुतस्तु शारदजलस्य निर्दोषवज्ञापनार्थ दिवानिशयोः संस्कारोपनिदर्शनार्थमुक्तम् । सर्वत्रवत्तों दिवाकांशुतप्तखं निशि च चन्द्रांशुशीतलवं वैषम्येण वर्तत एव। अत्र तु तुल्यखेन सूर्याचन्द्रमसोस्तुल्यबलखात् । वसन्ते तु तुल्यबलवेऽपि मूर्यस्य रोक्ष्याधियमिति जलस्य शोपणेनाल्पखेनाल्पवीर्याच। कालेन पक्कभिति वर्षासु वर्षजन्यखेनाभिनववं तत् पुनश्चिरेण शरदि कालस्वभावात् पच्यते। अत एव निदोषं सततवर्षजनितक्लिन्नभूमिसम्बन्धेन जातपच्छिल्यगुरुत्वाम्लपाकखादिदोषरहितम् ।
ननु वर्षासु मेघसहितवञ्चूय॑माणकीटलूतादिविषजुष्टखदोषो वर्तत एवेति चेत् कुत इति आह-अगस्त्येनाविषीकृतमिति। अगस्त्योदयात् प्रभावेण मेघसहितभुजगलतादिसविषप्राणिसंसर्गजखेन सविषलाद्यपायात् । हंसोदकमिति - चन्द्रार्कायभिधीयते हंसपदेन निम्मेलखात् । ताभ्यां शोधितमुदकं हंसोदकमिति संशा। एवंविधजलस्य हंसोदकलं प्रतिपादयति । विमलं शुचीति । विमलं-मलं गुरुवपैच्छिल्यकर्दमादि, तद्रहितम् । सुतरां शुचि विशदम् । यद्वा हंसपेयवाद हंसोदकम् । हंसा हि विशुद्धतोयं भजन्त इति । सम्प्रदुष्यति'। दिवेत्यादि। सूर्यांशुतापादेव दिवेति लब्धे दिवेति सकलदिनव्याप्त्यर्थम् ; सूर्यतप्तमिति वक्तव्येऽशुग्रहणं मेघावरणरहितांशुसूर्यग्रहणार्थ, सन्तप्तमित्यत्र संशब्दः परितस्तापोपदशनार्थः। एवं निशीत्यादि च व्याख्येयं ; चन्द्र शुग्रहणेन च निशि सौम्यांशुसम्बन्ध लक्षयति। कालेनेति प्रभावेण, पकमिति वर्षास्वभिनवभूमिसम्बन्धजनितपैच्छिल्यव्यम्लस्वादिदोषरहितं, यतः पक्कं ततो निर्दोषं दोषाजनकमित्यर्थः। अगस्त्येनाविषीकृतमित्यगस्त्योदयेन प्रभावात् वर्षासु मेघसम्बन्धोरगलूतादिसम्बन्धात् सविषमविषं भवतीति वाच्यम् । हंसोदकमित्येवं. भूतोदकस्य संज्ञा, हंसशब्देन सूर्याचन्द्रमसावभिधीयेते, तान्यां शोधितमुदकं हंसोदकं ; यदि
For Private and Personal Use Only