________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः
३४५
सूत्रस्थानम् । लावान् कपिञ्जलानेणानुरभ्रान् शरभान् शशान् । शालीन् सयवगोधूमान् सेव्यानाहुघनात्यये ॥ तिक्तस्य सर्पिपः पानं विरेको रक्तमोक्षणम् । धाराधरात्यये कार्यमातपस्य च वर्जनम् ॥ बसां तैलमवश्यायमौढकानपमामियम् । नारं दधि दिवास्वप्न प्राग्वातश्चात्र वर्जयेत् ॥
घनात्यय इति शरदि। मेघापगमेन शीताभावप्रदर्शनार्थ प्रायेण प्रतिश्लोक वाक्यसमाप्ताथश्च शरदारम्भे चैतत् सर्वस्य कर्तव्यताशापनार्थम् ।
मध्यपशरद्विधिमाह -तिक्तस्येत्यादि। धाराधरात्यये मेघानामेकान्ततोदर्शने मध्यशरदि प्रथमं तिक्तस्य सर्पिषः पञ्चतिक्तादिघृतस्य वक्ष्यमाणस्य पानम् । तेनाप्रशमे पित्तस्य विरेको विरेचनेन निहरणम् । तेन चाप्रशान्ते पित्ते रक्तं च दुष्टे.रक्तमोक्षणमित्यभिप्रायेणेदं वचनं बोध्यम् । आतपस्य वज्जन सदैव । रक्तस्य दुष्टिरत्र कालस्वभावादेव स्यात् । यदाह-“शरत्कालस्वभावाच शोणितं सम्पदुष्यति" इति। वसादिकश्च वज्जयेत् पित्तकफप्रकोपिलात् । दिवास्वप्नन्तु करुद्धिवह्निमान्यकरखात् । क्षारश्च पित्तकरखात्।
सामान्यन्यायेन श्लेप्मणो वातस्य च चयप्रकोपयोर्बोद्धव्यम् ; यदि वा प्रायः पित्तं प्रकुप्यति श्लेष्मा चानुबलत्वेनेत्यर्थः ; यदुक्तं "तस्य चानुबलः कफः" इति। लध्वित्यग्निसन्धुक्षणार्थम्, अत्र वः समानेनापि पित्तेन द्रवांशसम्भवेनाग्निमान्द्य क्रियते च, यदुक्त ग्रहण्यध्याये"आप्लावयद्वन्त्यनलं जलं तप्तमिवानलम् ।" उत्सर्गसिद्ध एव भोजनस्य मात्राव त्त्व मात्रयेति वचनं मात्रातिकमेणेह विशेषतो भूरिदोषत्वदर्शनार्थम्। सुप्रकाशितैः सुबुभुक्षितैः। उरभ्रो मेषः । धनात्यथ इति पुनर्वचनं शरत्प्रवेश एव एतदुक्तविधिकरणं ग्रन्थाधिक्यात् सूचयन्निति व्याख्यानयन्ति ; पश्यामः ....पर्यायशब्दानां पुनःपुनः करणे यत् तु तात्पर्य शास्त्रे प्रतीयते तत्र तदेव वाच्यं, यत्र तात्पर्य्यान्तरं न प्रतीयते तत्र वाक्यभेदेनैव पुनरभिधानमिति । धाराधराणां मेवानामत्ययोऽदर्शनम् ; तेन, प्रव्यक्तायां शरदि तिक्तसर्पिःपानं विरेकादि च कायें ; क्रमश्चात्राचार्याभिप्रतः, तेन प्रथम सर्पिःपानं, तेन पित्ताप्रशान्ती विरेकः, तेनाप्यशान्ती शोणितदुष्टौ च सत्यां रक्तमोक्षणं, रक्तव्यात्र कालम्बभावात् दुप्यत्येव प्रायः ; यदाह--"शरत्कालस्वभावाच्च शोणितं
For Private and Personal Use Only