________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४४ चरक-संहिता।
तस्याशितो वर्षाशीतोचिताङ्गानां सहसैवाकरश्मिभिः । तप्तानामाचितं पित्तं प्रायः शरदि कुयति ॥ तत्रान्नपान मधुरं लघु शीतं सतिक्तकम् । पित्तप्रशमनं सेव्यं मात्रया सुप्रकाञ्जितः ॥ गङ्गाधरः--वर्षाव्यवहितोत्तरवेन वर्षाविध्युपदेशानन्तरं शरद्विधिमुपदिशति -- वर्षाशीतेत्यादि । “उच समवाये” तस्य क्तान्तपदमुचितेति। वर्षासु कालस्वभावजशीतेनागत्याभ्यासेन समवेतान्यङ्गानि येषां तेषां शरदि सहसा मेघात्ययेन प्रखरकरतयाऽऽदित्यस्योदये तस्य रश्मिभिः सहसैव तप्तानां तापानुचितानां तेषां नृणामाचितं वर्षासु सश्चितं पित्तं प्रायः कुप्यति । न तु वर्षासु पित्तसञ्चयहरविधिमाचरितवतामनाचितं पित्तमिति । प्रायःशब्दन वातकफयोरप्यनुबन्धरूपेण कोपो भवति। मूय्यरश्मेरतिरौक्ष्येण वातस्य सामान्यात् वर्षाशीतसञ्चितकफस्य शरदि सहसाऽकरश्मिभिः प्रविलयनाच्चेनि दर्शितमित्यसम्यक शरदि वातप्रशमनात्, परन्तुक्तरीत्या कफस्यानुवन्धरूपेण कोपः स्यात् । वातस्य तु वर्षाशीतोचिताङ्गानां शैत्येन कुपितस्य शरदि मेघात्ययात् सहसा प्रखरकरैः शैत्यापगमेन प्रशमनमिति बोध्यम्। पित्तन्तु शरदि तस्य चानुबलः कफ इति चोक्तम् ।
तयोः प्रशमनाथं विधिमाह तत्रेत्यादि । तत्र शरदि कुपितपित्ते तदनुबन्ध रूपेण कुपितकफे च पित्तजयाथ मधुरं शीतश्चान्नपानं कफजयार्थ लघुतिक्तकमित्येवमुन्नेयम् । अत्र पित्तप्रकोप द्रवांशेन पित्ताप्लवनादग्निमान्दामुन्नेयम् । तदुद्दीपनार्थश्च लघु तिक्तक बोध्यम् । पित्तपशमनमिति प्रायः प्रधानप्रशमादप्रधानस्य प्रशम इत्यभिप्रायेणोक्तम्। मात्रयेति प्रस्तुतत्वेन लब्धेऽपि यत् पुनरुक्तं तदत्राग्निमान्दाज्ञापनार्थ मात्राव्यतिक्रमप्रतिषेधार्थञ्च। सुप्रकाशितैरिति सुबुभुक्षायामाहारविध्युपदेशः । वातप्रशमने पित्तककयोद्रवधातुत्वेनाश्वग्निमान्दाकरतात् । उरभ्रो मेषः। शरभोऽष्टपदः । शालीन हैमन्तिकधान्यानि ।
चक्रपाणिः-शरद्विधिमाह--वर्षेत्यादि। उचितम् अभ्यस्तम्, उच्च समवाये इत्यस्माद्धातोः, शीतमुचितान्यङ्गानि शीतोचितानि । सहसैवेति पदेनाक्रमेण शरदि तीव्रातपसम्बन्धादनभ्यस्तात् पित्तप्रकोपो न्याय्य इति दर्शयति । आचितमिति वर्षासु । प्राय इत्यनेनैव वर्षासु तु पित्तचयप्रतिकूलं विधि प्रयत्नेनाचरतो न भवति पित्तचयः, शरदि तु प्रकोपो न भवतीति दर्शयति । एतच्च
For Private and Personal Use Only