________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४२ चरक-संहिता।
- तस्याशितायः तस्मात् साधारणः सव्वों विधिवर्षासु शस्यते । उदमन्थं दिवा स्वप्नमवश्यायं नदीजलम् ॥ व्यायाममातपञ्चैव व्यवायश्चात्र वर्जयेत् । पानभोजनसंस्कारान् प्रायः क्षौद्रान्वितान् भजेत् ॥ व्यक्ताम्ललवणस्नेहं वातवर्षाकुलेऽहनि । विशेषशीते भोक्तव्यं वर्षास्वनिलशान्तये॥ वर्षादोषमुपदिश्य तत्प्रतिषधमुपदिशति -तस्मादित्यादि। तस्माद्वातपित्तकफदूषणात्। तेन पुनश्चाग्निदृषणादादानदुर्बलदेहपुरुषीयखेनाग्निवलहानश्च । तेषां विपरीतत्वात साधारणो विधिर्वासु कार्यः। साधारणस्तु विधिः सव्वेरसद्रव्योपयोगस्त्रिदोषघ्नोऽग्निदीपनश्चाहाराचाररूपश्चेति बोधः। वज्जामाह . उदमन्थमित्यादि। उदकप्रधानो मन्थ उदमन्थः। व्यवायं मैथूनम् । अत्र वर्षासु। तत्र वातवर्षानतिव्याप्तदिनविधिमाह - पानेत्यादि। पानमुदकादि, भोजनमन्नादि। संस्कारस्तयोः करणम् । प्रायः क्षौद्रेणान्वितानल्पक्षोद्रप्रतिनियतयोगेन वार्षिकक्लेदप्रशमनाथ कल्पितान। ___ तत्र वातवर्षातिव्याप्तत्वेनातिशीतेऽहनि वातशान्त्यर्थ वर्षाजल दशमनाथश्वाह-व्यक्ताम्त्यादि । तत्र यदिनं झञ्झावातवर्षातिशयनातिशीतं भवति तदिन महात्ययकारी वायुरतिवातेनातिवपेण सामान्याच्छीतगुणेन कुप्यति । महात्ययकरस्य तस्यापाततः प्रशमनमवश्यकर्त्तव्यमिति, अतस्तत्कालोपचितपित्तानुगुणवेऽपि वातातिहरखेनाम्ललवणावत्र व्यक्तखेन योज्याविति बोध्यम् । व्यक्ता अम्ललवणस्नेहा यत्रान्न तत्। संस्कृतघृतपत्रादिभिः संस्कारात तथाविधयुषो वातादिघ्नो भवति । क्षौद्रान्वितखे माध्वीकस्य पित्तहरखं स्यात्. तथाऽरिष्टस्यापि ; एवशब्देन मदनान्तरव्यवच्छेदः । वाशब्देन मद्यातिसात्म्यस्य पित्तश्लेष्मकरी। अग्निबले क्षीण इत्यनेनाऽऽदानाहितमग्निमान्द्यमपि दोषप्रकोपकमिति दर्शयति, अग्निमान्यञ्चापाकविपाकाभ्यां कफपित्तकारि धातुपोषकरसानुत्पादाञ्च धातुक्षयेण वातकारि। एतेन वर्षासु वह्निमान्देवन वातादिकोपः, वातादिकोपेन च वह्निमान्द्यमिति दर्शितं ; यदुक्त वाभटे"भूवाष्पेणाम्लपाकेन मलिनेन च वारिणा। वह्निनैव च मन्देन तेष्वित्यन्योन्यदूषिषु। साधारणो विधि: कार्यस्तिदोषानोऽग्निसन्दीपनश्च। उदकप्रधानो मन्थ उदमन्थः । पानमुदकादि, भोजनं रक्तशाल्यादि, तयोः संस्काराः संस्कारवन्त्यन्नपानानीत्यर्थः। श्रौद्ञ्च यद्यपि वातप्रकोपि
For Private and Personal Use Only