________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः
सूत्रस्थानम् ।
३४१ काननानि च शीतानि जलानि कुसुमानि च । ग्रीष्मकाले निषेवेत मैथुनाद्विरतो नरः ॥ १३ ॥
आदानदुर्बले देहे पक्ता भवति दुर्बलः। स वर्षास्वनिलादीनां दूषणैर्वाध्यते पुनः ॥ भूवाष्पान्मेघनिष्यन्दात् पाकादम्लाजलस्य च।
वर्षास्वग्निबले क्षीणे कुप्यन्ति पवनादयः॥ हिमानि च। पानकानि च सेवेत मन्यांश्चापि सशकरान ॥ भोजनश्च हितं शीतं सघृतं मधरद्रवम् । शृतेन पयसा रात्री शर्करामधुरेण च ॥ प्रत्यग्रकुसुमाकीर्ण शयने हम्म्यसंस्थिते । शयीत चन्दनााङ्गः स्पृश्यमानानिलः सुखैः॥ तापात्यये हितास्तस्य रसा ये गुरवस्त्रयः॥ पयो मांसरसाः कोष्णास्तैलानि च घृतानि च ॥ हणञ्चापि यत् किञ्चिदभिष्यन्दि तथैव च” ॥ इति ॥१३॥
गङ्गाधरः---अव्यवहितोत्तरखेन ग्रीष्मानन्तरं वर्षाविधिमाह -आदानेत्यादि। आदानदुर्बलदेहवादादाने देहवह्निः पक्ता दुबलः पुनः स दुर्बलो जाठराग्नि वर्षास्वनिलादीनां वातपित्तककानां त्रयाणां दृपणदु ष्टिभिर्बाध्यते दुप्यते ।
कुतोऽनिलादीनां दोषः स्यादित्याह-भूवाप्पादित्यादि। भूवाप्पात् ग्रीष्मे प्रचण्डकराकतापितभूमेवासु मेघवपणजलस्पर्शनोत्थापितवाष्पात् सोमभावात् तत्प्रभावात् त्रयो वातादयः कुप्यन्ति ! मेघनिष्यन्दाद्वातकफो कुप्यतः, तथा वर्षास्वभावाज्जायमानाजलस्याम्लपाकात् पित्तम् । इत्यनिलादयस्त्रयः। तथा
अग्निबले उक्तरूपेण हीन खादानदुब्बलदेहीयखेनाग्निबलहानिः स्वभावात् त्रिमलकोपं जनयति। त्रयो मलाश्चाग्निं दृषयन्तीति परस्परं दृष्यदृषकत्वमित्यतो वर्षास्वनिलादयः कुप्यन्ति । देयमित्यर्थः । मुक्त व मणिमुक्तामणिः, ग्रीष्मकाले चण्डातपे मध्याह्न इत्यथः। मैथुनोपरतिस्तु दिवानिशं बोद्धव्या ॥ १३॥ ___चक्रपाणिः-वर्षाविधिमाह--आदानेत्यादि। देहस्य दुर्बलत्वे पक्तापि दुबलो भवति, देहबलानुविधायित्वाद्वः, एतच्च बलिना बली भवतीति व्युत्पादितं ; स इति दुर्बलो वह्निः, अनिलादीनामियानलप्रधानानाम् । वर्षासु वातादयो कुतः कुप्यन्तीत्याह-भूवाष्पादित्यादि । भूवाष्पः प्रभावादेव त्रिदोषकोपनः, मेघनिष्टन्दो वातश्लेष्मकारकः, अम्लपाकता जलस्य वर्षास्वभावकृता
For Private and Personal Use Only