SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ष्ट अध्यायः सूत्रस्थानम् । ३३३ आलिङ्गयागुरुदिग्धाङ्गी सुष्यात् समदमन्मथः । प्रकामञ्च निषेवेत मैथुनं शिशिरागमे ॥ वजयदन्नपानानि लघुनि वातलानि च। प्रयातं प्रमिताहारसुदमन्थं हिमागमे ॥ ६॥१०॥ हेमन्तशिशिरे तुल्ये शिशिरेऽल्पं विशेषणम् । रौक्ष्यमादानजं शीतं मेघमारुतवर्षजम् ॥ चितौ परिणाहन स्तनो यस्यास्तामिति यौवनाध्य वप्रदर्शनार्थ बोध्यम् । तेनाल्प. स्तनी यौवनाच्यामपोति बोध्यम्। गुरुदिन्याङ्गी प्रिति प्रमदाविशेषणम् । समदमन्मथ इति पुरुषविशेषणम् । मदमन्मथाभ्यां सह वतमानः सुप्या ; न केवलं सुप्यात्, प्रकामञ्च यथेच्छया मैथुनं निवेत । एष च मैथुनोपदेशः पाणिनां हैमन्तिकशीतस्वभावेनोपचीयमानकाविरोधार्थः श्रेष्ठवलवत्त्वाच । अभ्यङ्गादिसेवनोपदेशस्तु वातनिरत्तार्थः कासश्चयवारणार्थश्च बोध्यः। पुनः शिशिरागापद हेमन्तान्तावयवार्थबोधाय, शिशिरारम्भे चास्यानुयत्तिबोधनार्थश्च। वज्जनीयमाह---प्रवातं प्राग्वातम् । प्रमिताहारमल्पाहारम् । उदमन्थं द्रवेणालोड़िताः शक्तवो मन्थः। स चोदकमात्रेणेति । दुग्धादिना तु न प्रतिषिध्यते ॥ ९॥१०॥ गङ्गाधरः-हेमन्ताव्यवहितोत्तरखेन तुल्यविधिलेन च शिशिरस्य विधिमाहहेमन्तेत्यादि। तुल्ये इति सर्वात्मना तुल्यत्वव्यवच्छेदार्थमाह, शिशिरेऽल्पं विशेषणं, विशेषो भेद इति यावत् । विशेष दर्शयति-रोक्ष्यमित्यादि । आदानजम् आदानारम्भतुवेनाकैग जगतः स्नेहादानाज्जायमानं रौक्ष्यं शिशिरे। हेमन्ते तु विसन्त्यित्त खेन सोमेन स्निग्धीभाव इति भेदः । तथा भेदान्तरमाह मैथुनसेवोपदेशश्चेह प्राणिनां बलवत्त्वेन शीतप्रतिकारकत्वेन चीयमानकफविरुद्भत्वेन च। सुश्रुतेन च हेमन्ते मैथुनसेवोक्ता ; यदुक्त-तत्रापनीतहाराश्च प्रिया नार्यः स्वलंकृताः। रमयेयुर्यथाकामं बलादपि मदोत्कटाः" इति ॥ ९.१० ॥ चक्रपाणिः--शिशिरविधिमाह-हेमन्तेत्यादि। विशेषणं विशेषः। शिशिरस्यादानारम्भकत्वेन रोक्ष्यं, तथा मेवमारुतवर्षाः शिशिरेऽधिका भवन्ति, तजञ्च शीतमधिकं हेमन्तादस्तीत्यर्थः, For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy