________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३४ चरक-संहिता।
तस्याशितोयः अभ्यङ्गोत्सादनं मूद्धि तैलं जेन्ताकमातपम् । भजेद भूमिगृहञ्चोष्णमुष्णणं गर्भगृहं तथा ॥ शीते सुसंवृतं सेव्यं यानं शयनमासनम् । प्रावाराजिनकोषय-प्रवेणीकुत्थकास्तृतम् ॥ गुरूष्णवासा दिग्धाङ्गो गुरुणाऽगुरुणा सदा ।
शयने प्रमदां पोनां विशालोपचितस्तनीम् ॥ निवृत्त्यर्थ सर्वः स्निग्धाम्लादिविधिरविरुद्धो भवतीति बोध्यम् । उष्णञ्चेति चकारेण यवगोधूमादयोऽपि बोध्याः । ___ हमन्तिकाहारविधिमुक्ताऽऽचारविधिमाह - अभ्यङ्गत्यादि। उत्सादनं हरिद्रादिकल्कम्रक्षणम् । जेन्ताकः स्वेदविशेषो वक्ष्यमाणः स्वेदाध्याये। आतपं रौद्रम् । भूमिगृह मिष्टकाममृन्निर्मितगृहम् । गर्भगृहं तदिष्टकाममृदन्यतरनिर्मितगृहान्तवर्तिकोष्ठकगृहम् । शीते इति तु-हैमन्तिकप्रकरणाल्लब्धेऽपि-पुनये दुक्तं तत् प्राषि मेघवातवर्षजे शीतेऽपि प्रतिविधानार्थम् । इदं स्मृखा तत्रापि शीते निषेव्यमिति बोध्यम्। अत एव सामान्यतः कालजशैत्यनिवारणविधिरेष इति ज्ञापितमित्यर्थः। सुसंवृतं सम्यगातमिति गृहविशेषणं स्थानमिति वा शेषः। यानं हयादिकम् । शयनं शय्या। आसनमुपवेशनस्थान, तद्विशेषणं प्रावारेत्यादि । प्रावारो गुरु प्रावरणं कम्बलादि । अजिनं व्याघ्रादिचर्म। कोषयं कोषकारकीटकृततन्तुनिर्मितं वस्त्रादि । प्रवेणी वेणीति प्रसिद्धा । कुत्थकश्चित्रकम्बलम् । एषामिष्टतमेनास्तृतमास्तरणीकृतम्। अत्राऽजिनपदेन लोनां, कोषेयपदेन तूलकानामवबोधः।
गुरूष्णवासाः पुरुषः। वाससो गुरुत्वोष्णले बहुलकोषेयखेन बोध्ये । गुरुणा घनीकृतलेपेनाऽगुरुणा घृष्टेन दिग्धाङ्गो भूखा सदा नित्यं प्रायेण वा । शयने इति उक्त प्रावाराद्यास्तृते। पीनां निविड़ाऽकृशाङ्गी प्रमदां मदनमदोत्पत्तिप्रारम्भवतीं यौवनाढ्यामित्यर्थः। सा च विशालो आयामेन उपशीतेष्विति पदं वर्षाकालादावपि शीतप्राप्तौ संवृतयानादिसेवोपदर्शनार्थम्। प्रावारो गुरु प्रावरणं कम्बलादि, अजिनं व्याघ्रादिचर्म, कौषेयं कोषकारकीटतन्तुमयं, प्रवेणी गोणीति प्रसिद्धा, कुत्थकश्चित्रकम्बलं, गुरुणागुरुणेत्यगुरुघनप्रलेपेनेत्यर्थः। विशालावायामेन, उपचितौ परिणाहेन,
For Private and Personal Use Only