________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३२ चरक-संहिता।
तस्याशितीयः पुनहेमन्तग्रहणं गोरसादीनामुष्णतोयान्तानां हेमन्तं व्याप्य अभ्यासज्ञापनार्थम् । न हीयते इति तु ओ हाक त्यागे जुहोत्यादिको धातुविश्लेषजनकव्यापारार्थकः सकम्मकोऽत्र कर्मकते कस्तेन हमन्ते गोरसादीनुष्णश्च तोयमभ्यस्यतो नरादायुस्तस्य नदभ्यासं कुवतो न हीयते इत्यर्थे कम्मकत्तरि कम्मेवद्भावः। हेमन्ते गोरसाधनभ्यस्यतस्तु पुरुषादायुहीयते इति प्रसज्यप्रति प्रधाथै न। अत्र च मोरसाद्यनभ्यस्यन् पुरुप आयुजेहाति इति न प्रसज्यते। किन्तु गोरसाधनभ्यासादायुनरात हीयते विश्लिष्यते इति प्रसज्यते। गोरसाद्यभ्यासात् तु गोरसावभ्यस्यतः पुरुपादायुविश्ठेषो निषिध्यते इति विश्रेषजनकपुरुषव्यापाराभावनागोरसायभ्यासेन बलवद्धेतुनाऽऽयुःपुरुषयोविश्लेपाभावोत्पत्याऽभ्यस्यत इत्यस्यावधिवादपा. दानवं, न तु कर्तवम्। विश्लेषजनकयोग्यता धात्वर्थस्तदाश्रयखादायुपः कम्मेव मिति कम्मतुल्यक्रियतात् कम्मैकत्तरि प्रयोगः। यत्र पावर्थयोः फलव्यापारयोापारस्य जनकाभावेन न सद्भावः स्वशक्त्यादिहेतवलेनैव फलमुत्पदाते तत्र तत्कलाश्रयकम्मैव तच्छत्त्यादिमत्त्वात् कर्ता भवति, कर्म च न भवत्येव ; हेतुस्वातन्त्रात् तु कर्ता । स्वतन्त्रो हि कर्ता। स्वातन्त्रान्तु कारकान्तरव्यापाराप्रयोज्यव्यापारवत्वम्। हेतुश्च तत्प्रयोजक इति पूर्व हेतुसंशया बाधितखात। तस्मात् कम्म करि कम्मेवत्तिडादिः । ___ एष चाहारविधिहेमन्ते भाविदेहजरसशोपाऽऽशङ्काविशेपे बाध्यः । न तु युक्तमन्नं भुक्तवतोऽग्निदेह जं रसं हिनस्ति । न वा वायुः प्रकुष्यति रौक्ष्येणापि । शीतगुणेन हैमन्तिकातिशैत्यात् कुष्यति। तेन च रसशोपाभावेऽप्येप विधिबौध्यः। एतेनौदकमांसादीनां हेमन्तकालस्वभावजककचयकरखेऽपि व्यवायादिना कफचयाभावेऽय विधिरित्युक्तम्। प्रत्युक्तः सुश्रुते हि ऋतुचर्याध्याये"ता एवौषधयः कालपरिणामात परिणतवीया वलवत्यो हेमन्ते भवन्ति आपश्च प्रसन्नाः स्निग्धा अत्यर्थ गुव्वाः। ता उपयुज्यमाना मन्द किरणखाद्भानोः सतुषारपवनोपष्टम्भितदेहानां देहिनामविदग्धाः स्नेहा शैत्याद्गारवादुपलेपाच श्लेष्मणः सञ्चयमापादयन्ति” इत्युक्त्वा पुनः तत्र “वर्षा हेमन्तग्रीष्मेषु सञ्चितानां दोषाणां शरद्वसन्तप्राट्सु च प्रकुपितानां निहरणं कर्तव्यम्” इत्युक्तम् । पुनश्च तत्रैवाक्तं “तत्राव्यापन्नष्टतुष्वव्यापन्ना ओपश्यो भवन्ति आपश्च प्रसन्नाः। ता प्रसिद्धम्। हेमन्तेऽभ्यस्यत इति पुनर्हेमन्तग्रहणं, हेमन्तं व्याप्येवोष्णोदकसेवोपदर्शनार्थम् । जेन्ताकः स्वेदविशेषो वक्ष्यमाणः। गर्भगृहं गृहकोष्टकम् । हेमन्त इत्यनेनार्थे लब्धेऽपि
For Private and Personal Use Only