________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३०
चरक-संहिता।
[ तस्याशितीयः स यदा नेन्धनं युक्तं लभते देहजं तदा।।
रसं हिनस्त्यतो वायुः शीतः शीते प्रष्यति ॥ लक्षणनिद्देशः, हेमन्त इति लक्ष्यनिर्देशः। तत्र वाह्यो वायुः स्वतः शीतोऽपि कालस्वभावात् प्रायेणोत्तरमार्गप्रपन्नः शीतदेशसम्बन्धात् तथा शीतल शैत्यसम्बन्धादतिशीतो भवतीति शीतानिल इत्युक्तम् । तस्य स्पर्शः शीतानिलस्पर्शः । किंवा तादृशोऽनिलस्तु हेमन्ते शीते इत्युक्त्यैव हैमन्तिकखाद योगवाहिखाच लभ्यते। तेन शीतमतिशीतहेमन्तस्वभावजं, शीतं शैत्यं, हैमन्तिकातिशीतानिलश्च, तयोः स्पर्शन जाठरोऽग्निर्मन्दः स्यादित्यत आह–संरुद्धेति । अतिशीतहेमन्तातिशैत्यातिशीतानिलयोः स्पर्शन देहसम्बन्धेन वहिरनिर्गच्छच्छारीरोष्मणः संरोधात् कुम्भकारपयनाहितपङ्कलेपेन यथान्तर्गतवदिद्धिभवति तथा पक्ताऽन्तर्जठराग्निर्वली भवति बलिनां हेमने। कालस्वभावात् स्वस्वमार्गप्रतिपन्नाकादिभिर्हेमन्तस्वभावात् नित्तशारीरस्निग्धरसधाखादियोगेन नि त्तवलानां नृणामिति। तस्मात् स बली पक्ता जाठराग्निर्हेमन्त मात्राद्रव्यगुरुक्षमः ; मात्रया द्रव्यतश्च द्रव्यस्वभावतश्च यद्गुबन्नं नवधान्यादिकं तयोर्मात्रागुरुद्रव्यगुवोः पाके क्षमः शक्त इत्यर्थः। इति ऋतुस्वभावजशारीरदोषाग्निद्धिनिट त्तिमुपदिश्य तत्परिहारोऽप्युपदिष्टो मात्राद्रव्यगुरुक्षम इत्यनेन। ___ जाठराग्निद्धिरूपदोपपरिहाराकरणे सत्यातुय्येहेतुदोषमाह–स इत्यादि। स हैमन्तिकोऽतिबली पक्ता जाठराग्निरिन्धनमन्नरूपं युक्तमग्निबलानुरूपं यदा न लभते तदा देहजं रसं शारीरं सौम्यांशं हिनस्ति क्षयं नयति । सम्बन्धाद्विशेषेण शीतोऽनिल. शीतानिलः, विशेषेण शीतत्वं वायोर्योगवाहित्वात् शीतकालसम्बन्धादेव लब्धं पुनरभिधीयतेऽग्निसंरोधे हेतुत्वात् ; वायुर्हि हिमसम्बन्धादेव वहिनिर्गच्छएछरीरोष्मणो रोधं कृत्वा कुम्भकारपवनाहितपङ्कलेप इवान्तरस्य व वृद्धिमावहति ; एतेन यदुच्यतेऽसमानात् शीतवातात् कथमग्निवृद्धिरित्येतदपास्तम् ; न ह्यत्र शीतो वातोऽग्नित्वेन परिणमति, किं तर्हि निर्गच्छत्तेजःप्रतीपीकृतः; शीतानिलस्य स्पर्शः शरीरसम्बन्ध इत्यर्थः। बलिनां प्राणिनां, हेमन्तस्वभावाबली भवति ; अनेन प्राणिबलवत्त्वमग्निबलवत्त्वे हेतुरिति दर्शयति ; उक्तञ्च हस्तिवैद्यके बालगजानां नीरोगत्वप्रतिपादने, यथा-"अव्याहतादभिप्रायात् प्रीतिः प्रीतेर्बलं बलात्। अग्निरग्नेश्च धातूनां बलं * नाशस्ततो रुजाम्" इति। मात्रया यद गुवतिमात्रमित्यर्थः, द्रव्यतश्च द्रव्यस्वभावतश्च यद गुरु नवधान्यादि, तत्क्षमः ; एवम्भूतो बली वह्निर्यदा युक्त गुरुभूतञ्चान्नं न लभते, तदा देहजं रसं हिनस्ति क्षयं नयति,
• बलमित्यत्र साम्यमिति क्वचित् पठ्यते ।
For Private and Personal Use Only