________________
Shri Mahavir Jain Aradhana Kendra
३२८
www.kobatirth.org
चरक संहिता | भवति चात्र ।
Acharya Shri Kailassagarsuri Gyanmandir
[ तस्थाशितीयः
आदावन्ते च दौर्बल्यं विसर्गादानयोर्नृणाम् । मध्ये मध्यवलन्त्वन्ते श्रं ष्ठमयं च निर्दिशेत् ॥ ८ ॥
विष्णोर्निश्वासतो वातो यदा वेगसमीरितः ।। सहसोदीय्यते तात जगत् प्रव्यथते तदा ॥”
इति सप्त मार्गाः सप्त वहिश्वरा वायवः । समानादयः पञ्च शरीरचराः । इह तु वहिञ्चराः सप्त वायवो ज्ञेयाः । कालवदिनिष्ट चिहेतुलात् ॥ ७ ॥
1
गङ्गाधरः- अथायमर्थो येन श्लोकेनाभ्यनुक्तस्तं वक्तुमाह भवति चात्रेति । श्लोकमाह–आदावित्यादि । यथाक्रमं विसर्गादानयोर्द क्षिणायनोत्तरायणयोरादावन्ते च नृणां दौब्बल्यं भवति कालकृतम् । विसर्गस्यादौ वर्षाकाले तथा आदानस्यान्ते ग्रीष्मे नृणां दौर्बल्यमिति तुल्यत्वेऽपि यद्विसर्गे बलमुपचीयते नृणामित्युक्तं तद्वर्षासु ग्रीष्मापचितवलस्योपचयारम्भः । ततः शरद्धेमन्तापेक्षया दौल्यं ग्रीष्मापेक्षयोपचितवलखमित्यवधेयम् । एवं विसर्गादानयोर्मध्ये मध्यवलं विसर्गस्य दक्षिणायनस्य मध्यऋतौ शरदि मध्यबलं बलस्योपचयारम्भात् क्रमेण बलस्योपचयो मध्यमः, ततो मध्यवलमेव भवति । एवमादानस्य उत्तरायणस्य मध्यऋतौ वसन्ते मध्यवल शिशिरे वलापचयारम्भात् क्रमेण वसन्ते बलस्य मध्यमापचय इति मध्यवलं भवति । एवं विसर्गादानयोर्यथाक्रममन्तेऽग्रे च श्रेष्ठं बलं निर्दिशेत् । विसर्गस्य दक्षिणायनस्यान्ते हेमन्ते क्रमेण वलोपचयसम्पूरणप्रायात् श्रेष्ठं बलं निर्दिशेत् । आदानस्योत्तरायणस्याग्रे शिशिरे हेमन्तोपचितसम्पूर्णवलस्याऽऽदानेऽपचयारम्भेऽपि क्रमेण नृणां श्रेष्ठमेव वलं वर्त्तते । वृद्धिहासौ हि क्रमेण भवतः, नैकदा सर्व्वथा वृद्धिहासो भवत इति । इत्येवमृतुनिबन्धने बलस्याल्पत्वमभ्यवश्रेष्ठत्वभेदेऽपि वर्षादिषु त्रिषु प्रतिदिनं वलोपचयः शिशिरादिषु त्रिषु प्रतिदिनं वलापचय इति । तत उक्तं नृणामादाने दौर्बल्यं विसर्गे वलोपचय इति । तथा चादिदिने ग्रीष्मावसाने चरमपरमाणुक्षणे च निःशेषेणापचयाद्दौव्वल्यस्य सीमा भवति ।
T
For Private and Personal Use Only
चक्रपाणि: सम्प्रति शिशिरादौ बलहासः प्रतिपादितो वर्षादौ च बलोत्कर्ष:; तत्र शिशिरे दुर्बलाः, वर्षासु बलवन्तः प्राणिनो भवन्तीत्यादिदुर्ग्रहं निषेद्धमाह-- आदावन्ते चेत्यादि । विसर्गस्यादौ वर्षासु, आदानस्यान्ते ग्रीष्मे दौर्बल्यं प्रकर्ष प्राप्त विनिर्दिशेदिति सम्बन्धः; तथा मध्ये विसर्गस्य शरदि, आदानस्य मध्ये वसन्ते मध्यं नातिक्षीणं नातिवृद्धं बलं विनिर्दिशेदिति योज्यम् ;