________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः
३२७
सूत्रस्थानम्। प्रवयत्यभ्रसंघातान् धृमजांश्चोष्मजांश्च यः । प्रथमः प्रथमे मार्ग प्रवहो नाम सोऽनिलः। अन्तरे स्नेहमभ्येत्य तडिद्भाचोत्तमदुप्रतिः ॥१॥ आवहो नाम संवाति द्वितीयः श्वसनो नदन । उदयं ज्योतिषां शश्वत् सोमादीनां करोति यः । अन्तर्देषु चोदानं संवदन्ति मनीषिणः॥२॥ यश्चतुभ्यः समुद्रभ्यो वायुर्धारयते जलम् । उद्धत्य ददत्ते चापो जीमूतेभ्योऽम्बरेऽनिलः ॥ योऽद्भिः संयाज्य जीम्रतान् पर्जन्याय प्रयच्छति । उद्वहां नाम वंहिष्ठस्तृतीयः स सदागतिः॥३॥ संमुह्यमाना बहुधा यन नीताः पृथग्यनाः । वर्षमोक्षकृतारम्भास्ते भवन्ति घना धनाः॥ संहता येन चाविद्धा भवन्ति नदतां नदाः । रक्षणार्थाय सम्भूता मेघवमुपयान्ति च ।। योऽसौ भरति भूतानां विमानानि विहायसा । चतुर्थः संवहो नाम वायुः स गिरिमनः॥४॥ येन वेगवना रुग्णा रुक्षेण रुजता नगाः । वायुना सहिता मेधास्ते भवन्ति बलाहकाः॥ दारुणोत्पातसन्धारो नभसः स्तनयित्नुमान। पञ्चमः स महावेगो विवहो नाम मारुतः॥५॥ यस्मिन् परिप्लवा दिव्या वहन्त्यापो विहायसा । पुण्यश्चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति ॥ दुरात् प्रतिहतो यस्मिन् नैकरश्मिर्दिवाकरः । योनिरंशुसहस्रस्य येन भाति वसुन्धरा ॥ यस्मादाप्याय्यते सोमः क्षीणः सम्पूर्णमण्डलः । पष्ठः परिवहो नाम स वायुजेपतां वरः ॥६॥ सर्वप्राणभृतां प्राणान् योऽन्तकाले निरस्यति । यस्य वानुवत्तते मृत्युवैवस्वतावुभौ ।। परावहो नाम परो वायुः स दुरतिक्रमः ॥७॥
For Private and Personal Use Only