________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२६
चरक-संहिता। : तस्याशितीयः तत्तत्वभावसामान्याद वृद्धिः । तत्तत्स्वभावविशेषाद् हासः । तत्ततस्वभावाविर्भावतिरोभावे तु कालस्वभावो हेतुरिति चेत? उच्यते; तदागम्यतां भवद्भिरस्मयाख्यानवर्त्मनि। तर्हि गतौ मूर्यादीनां कारादिनित्तो कालेनैव स्वस्वभावमार्गाभ्यां स्वस्वधर्मपरिग्रहः कल्पाः। केवलेनैव यहाकालस्वभावेन मागेपरिग्रहात तु मूर्यादीनां स्वस्वस्वभावौष्णादिप्रजननसिद्धिः। कालेन स्वभावाञ्चक्रवर्द्रमणात् स्वस्वमार्गेण नीताः मुय्यवायुसोया इति वचनेनैव मुख्दीनां स्वस्वमागग्रहणोक्तिसिद्धौ यत् कालस्वभावमार्गपरिगृहीता इत्युक्तं नेनैवं ख्यापितम् । कालस्य निगुणस्य निष्क्रियस्य स्वजन्यखेन शीतोष्णवर्षाणामाश्रयखे चक्रवभ्रमणमेव स्वस्वभावः, तच्चक्रवभ्रमणस्वभावात् तत्कालचक्रस्थानां मूर्यादीनां स्वस्वमार्गप्रतिपन्नानां हेतुखमिति ! कल गतिसङ्ख्ययोश्चौरादिको धातुः । कलयति भूतानि भ्रामयतीति कालः । चक्ररूपे स्वस्मिन स्थितराशिचक्रस्थग्रहनक्षत्रादीनां स्वस्वमागेपरिग्रहादिनित्तकभ्रमणशीलः। मार्गश्वार्कस्य दक्षिणोत्तरगमनस्य पन्थाःसोमस्याकसन्निकर्षगमने दक्षिणोत्तरयोः पन्थाः। वायोश्च मार्गाः सप्त प्रवहनादयः। तदुक्तं महाभारते मेघगर्जने शुकवैशम्पायनादिषु वेदव्यासेनाध्ययनान्निवारितेषु शुक उवाच। तद यथा ---
"शुको वारितमात्रस्तु कौतूहलसमन्वितः । अपृच्छत् पितरं ब्रह्मन कुतो वायुरभूदयम् ।
व्याख्यातुमहेति भवान वायोः सबविचष्टितम् ।। व्यास उवाच-पृथिव्यामन्तरीक्षे च यत्र संवान्ति वायवः ।
सप्तैते वायुमार्गा वै तान् निवोशनुपूर्वशः ।। तत्र देवगणाः साध्या महाभूता महाबलाः। तेषामप्यभवत् पुत्रः समानो नाम दुज्जेयः॥ उदानस्तस्य पुत्रोऽभूदानस्तस्याभवत् गुतः । अपानश्च ततो शेयः प्राणश्चापि ततोऽपरः ।। अनपत्योऽभवत् प्राणो दुद्धपः शत्रुतापनः । पृथक् कर्माणि तेपान्तु प्रवक्ष्यामि यथातथम् ।। प्राणिनां सर्वतो वायुश्चेष्टां वर्त्तयते पृथक् ।
प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते।। तयोश्चाग्नेययोः उत्पाद इति न वाच्यम् ; यतो बलप्रकर्पवतोऽस्य क्षीयमाणबलस्यापि विषुवपर्यन्तं बलवत्त्वमस्त्येवेति व्युत्पादितमेव ॥ ७॥
For Private and Personal Use Only