________________
Shri Mahavir Jain Aradhana Kendra
६ष्ट अध्यायः }
www.kobatirth.org
सूत्रस्थानम् ।
सन्तापे जगत्यरुचा रसाः प्रवर्द्धन्तेऽ तत्र बलमुपचीयते नृणामिति ॥ ७ ॥
३२५
ऽम्ललवणमधुरा यथाक्रमम् ।
Acharya Shri Kailassagarsuri Gyanmandir
क्रमादल्पाल्पप्रखर करहासे, सुतरां शशिनि चाव्याहतबले क्रमेणोपचितबले सुतरां माहेन्द्रसलिलप्रशान्तसन्तापे जगति स्निग्धे सति अरुक्षाम्ललवणमधुररसा यथाक्रमं वर्षास्वम्लरसः शरदि लवणरसो हेमन्ते मधुररस एते प्रवर्द्धन्ते । रुक्षाश्च रसास्तिक्तकषायकटुक्का हसन्ति । तत्र तथाभूते सति क्रमेण बलमुपचीयते नृणाम् अम्ललवणमधुररसवदेहानां क्रमेण वृद्धाम्ललवणमधुररसवदद्रव्योपसेविनां क्रमेणारुक्षदोषाणां कफादीनां वृद्धिमतां रुक्षदोषवातादीनां दुष्टिहासवतामिति । न चाम्लो रसोऽपि सतोयभूम्यग्निगुणबाहुल्याल्लवणः क्षित्यग्निगुणवाहुल्याद्भवन्नप्याग्नेयः सूय्र्यबलस्य किञ्चिन्मान्य सोमस्य किञ्चिमावल्ये वर्षास्वग्निजलगुणवहलोऽम्लो रुक्षो जायते, शरदि च तयोमध्यवले समे भूम्यगुणवहुलो लवणो भवति । भूमिर्हि जलानुप्रवेशात् किञ्चित् स्निग्धेति लवणोऽप्यरुक्ष इति ।
अ कालेनार्कवासोमा उष्णयोगवाहित्व शीतरूपेण स्वस्वस्वभावेन च दक्षिणादिमार्गेण च परिगृहीताः कालर्त्वादिप्रत्ययभूताः स्युरिति व्याख्याने कालविति कालपदस्य नैरर्थक्यापत्तिः; कालस्येवार्कवायुसोमानां कालत्वदिनिर्ऋतौ समानरूपेण कारणत्वापत्तिश्च । मुख्या मुख्यकारणत्वाभावे हि कालस्य शैत्यौष्णवर्षान्यतमलिङ्गकस्यवार्कादीनामपि शीतादिलिङ्गकत्वं स्यात् । तथाखे हि अयं महाकालावयवः शिशिराख्यकालः क्रमेणाल्पाल्पस्वस्वभावजनितार्कप्रखरकरवातातिरौक्ष्य तीव्रगतिसोम-स्निग्ध-शैत्यहानि जनिताल्प-शीतोष्ण वर्षवत्त्वादित्येवं यथा तथाऽयं सूय्र्योऽयं वायुरयं सोमो वा शिशिराख्यः कालस्तथात्वादिति स्यात् । अर्कस्वभावेनैव स्वकरप्रखरत्व - वातातिरुक्षत्व- तीव्रगतिसोमस्निग्धत्वशैत्यादीनां जनितत्वात् । वायुस्वभावेन च स्वातिरौक्ष्यतीत्रगतिसूर्य्यप्रखरकर सोम स्निग्धत्वशैत्यादिहानीनामुत्पत्तेः । सोमस्वभावेनैव च स्वशैत्यस्निग्धत्वादिहानिसूय्ये करप्रखरतावायुरौक्ष्यतीत्रगतीनामुत्पत्तेश्च । सूय्यौ हि तेजसस्वभाववान्, वायुर्हि वायव्यस्वभाववान्, सोमोऽप्याप्यस्वभाववान् ।
इति सम्बन्धः, वातस्त्विह मेघसम्बन्धाहितशैत्योऽर्कतापपरिपन्थी भवति, शशिनोऽव्याहतबलत्वं सूर्यस्य परिपन्थिनोऽभिहतप्रतापत्वादनुगुणमेववातवर्षणयोगाच्च । जगति स्थावरजङ्गमे । अत्र च पृथिव्यग्निभूयिष्टत्वादम्लः सलिलाग्निभूयिष्ठत्वात् लवण इत्युक्तं तत् कथं सौम्ये विसर्गे
For Private and Personal Use Only
3