________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्याशितीयः
३२४
चरक-संहिता। मुत्पादयन्तो रुक्षान् रसांस्तिक्तकषायकटुकांश्चाभिवर्द्धयन्तो नृणां दौर्बल्यमावहन्ति ॥ ६॥
वर्षाशरद्धेमन्तेषु तु दक्षिणाभिमुखऽर्के कालमार्गमेघवातवर्षाभिहतप्रतापे शििन चाव्याहतबले माहेन्द्रसलिलप्रशान्तदीनां दुष्टिटद्धिमतामरुक्षकफादिहासवतां क्रमेणैव दौर्बल्यमावहन्ति । यथाक्रममिति क्रमः क्रम इति यथाक्रमं तेन, तथा क्रमस्तु उत्तरोत्तरक्रमार्थ इति । तेनाकवायुभ्यां सोमाच्च उत्तरोत्तरशीतोष्णवपलक्षणतयोत्तरायणस्य कालविशेषस्य शिशिरादीनां त्रयाणामृतूनां तदयनान्तगेतानां क्रमेण शीतोष्णवर्षलक्षणानां नित्तिः, तिक्तादिरसानां नित्तिः, भावानां रुक्षवदोषस्य वायोश्चातिरुक्षवदोषस्य निर्वृत्तिः, नृणाश्च देहे वातादिप्रकोपस्य निव्यत्तिदेहस्याल्पबलरूपबलनि त्तिरुदाहृता भवति। तस्मादादानमुच्यते ॥६॥
गङ्गाधरः--सोमार्कवायुभ्यश्च कालवदुरदाहरणान्तरमाह-वत्यादि। तत्रेति पूर्वमुक्तमनुवत्तेते। तत्र कालस्वभावमार्ग परिगृहीता वर्षाशरद्धेमन्तेषु तु वर्षांष्णशीतलक्षणरूपेण लक्ष्यमाणे काले पुनस्तत्र हेतुभूते दक्षिणाभिमुखेऽकं कालमार्गमेघवातवर्षनिहतप्रतापे, कालेन महाकालेन संवत्सरेण तस्य स्वभावाचक्रवद भ्रमणात प्रापितमार्गेण दक्षिणादिपथेन तत्कालेन च जनितमेघेन तत्कालेन च जनितवातेन तत्कालेन च नितवर्षेण निहतप्रतापे, यद्यपि च कषायो रसो रुक्षतमः, कटुकश्च रुक्षतरः, यदुक्त 'राक्ष्यात कपायो रुक्षाणां प्रवरो मध्यमः कटुः" इत्यादि ; रौक्ष्यप्रकर्षश्च ग्रीष्मे, मध्यमबलञ्च रौक्ष्यं वसन्ते ; तथापि वाय्वग्निगुणबाहुल्यात् कटुकस्य वाय्वग्निगुणबहुले ग्रीष्मकाल एवोत्पत्तिः ; पवनपृथिव्युत्कर्पवति तु वसन्ते च पवनपृथिव्युत्कर्षजन्यस्य कषायस्योत्पत्तिः : यदुक्त "वाय्वग्निगुणभूयिष्ठत्वात् कटुकः, पवनपृथिव्यतिरेकात् कषायः" इति। पृथिव्यायत्कर्षश्व कालविशेषप्रभावकृतः कार्यदर्शनादुन्नेयः। अभिवर्द्धयन्त इति वचनाद यथास्वकाले तिक्तादीनाम् अतिवृद्धिः सूच्यते, तेन, न तदेकरसत्वम् । अत्र च क्रमवद्रौक्ष्योत्पत्तितिक्तावत्पत्ती अपि दौर्बल्योत्पत्तौ कारणं, यत्, रौक्ष्यमुत्पादयन्त इति तिक्तकषायकटुकानभिवर्द्धयन्त इति च हेतुगर्भविशेषणद्वयं कृत्वा दौर्बल्यमावहन्तीत्युक्तम् ॥ ६॥
चक्रपाणिः--वर्षेत्यादि ।-तुशब्दः पूर्वपक्षव्यावृत्ती, दक्षिणाभिमुखे दक्षिणाशां गन्तुमुद्यत एवार्के, तेन विषुवोभयोपलक्षितमध्यदेशादत्तरेण वर्तमानोऽपि रविर्यदैव दक्षिणाशां गन्तुमुद्यतो भवति तदैव क्षीयमाणबलो भवति, उत्तराशागमनप्रकर्षाहितबलप्रकर्पतया तु स्तोकस्तोकक्रमापचीयमानबलोऽपि तथा दुर्बलो न लक्ष्यते। एवमुत्तरायणेऽपि व्याख्येयम्। कालः पूर्व व्याख्यातः, मार्ग इह दक्षिणाभिमुखः, मेघस्य वातो मेघवातः, वर्षणं वर्षः, पतैरभिहतप्रतापेऽर्के
For Private and Personal Use Only