________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६छ अध्यायः सूत्रस्थानम् ।
३२१ सोमश्चाव्याहतबलः शिशिराभिर्भाभिरापूरयन् जगदाप्याययति शश्वत्, अतो विसर्गः सौम्यः ॥ ४ ॥
आदानं पुनराग्नेयम् । तावतावर्कवाय सोमश्च कालवभावरुक्षाः प्रवान्ति, रौक्ष्यस्वभावात् । इतरे पुनरादाने नातिरुक्षभिन्नाः, आदाने तु वायवोऽतिरुक्षाः प्रवान्तीत्यर्थः। वसर्गिकवायूनां किञ्चिस्निग्धरुक्षले हेतुमाह-सोमश्चेत्यादि। विसर्ग सोमश्च यस्मात् अव्याहतबलः बलोपहननकालमार्गमेघवातादिभिर्व्याहतबलखाभावेन क्रमेणोपचितबलः शिशिराभिः शीताभिर्भाभि प्तिभिर्जगदाप्याययति पुष्टीकरोति शश्वदिति ; अतो हेतोविसर्गः सौम्यः सोमगुणवहुलः। सुतरां विसर्ग वायवो नातिरुक्षाः ; सौम्यविसगेस्य शैत्येनाल्पीकृतरुक्षवात् ॥४॥ ___ गङ्गाधरः आदानिकवायूनामतिरुक्षवे हेतुमाह ----आदानं पुनरित्यादि । पुनस्तुकारार्थे ; भिन्नक्रमस्तेन लभ्यते। तथा च यस्मात् सोमश्चादाने बलोपहननहेतुकालमार्गावातादिसद्भावेन भिरेव व्याहतबलः क्रमेणोष्णाभिः दुप्रतिभिः मूर्यांशूपतप्यमानं जगन्नाप्याययति कालमार्गवातादिभिः क्रमेणोपचितवलः मूय्ये उष्णाभिर्धाभिर्मन्दीकृतसोमवल उपतापयति वा शश्वदिति ; अतो हेतोरादानमाग्नेयं तेजोगुणबहुलं ; सुतरामादाने वायवोऽतिरुक्षाः, रुक्षादानसम्बन्धेन वर्द्धितरुक्षवात्। ननु विसर्गादानयोः स्निग्धरुक्षबहेतू सोममूर्यो किं भवतः स्यातां वा, तयोर्वायोश्च बलाबलहेतुः पुनः को भवतीति ? अत आह तावतावित्यादि। ताविति प्रसिद्धौ। एताविति विसर्गादानरूपयोः संवत्सरात्मकमहाकालावयवयोलिङ्गानामौष्णारौक्ष्यझञ्झावातादीनां हेतू अर्कवाय । सोमश्चेति चकारेण स एप इत्यर्थात् । विपरिणामात् स प्रसिद्धः, एप विसर्गादानरूपसंवत्सरात्मकमहाकालावयवयोलिङ्गानां शैत्य
दानसम्बन्धाहितरुक्षत्वात् । सोमश्चेत्यादि प्रकृतेन विसर्गेण सम्बध्यते, अव्याहतबल इति कालमार्गमेघवातादिभिस्तदा सूर्यस्य सोमपरिपन्थिनो हतबलत्वात् । शिशिराभिः शीताभिः, शश्वदिति च्छेदः । सौम्यः सोमगुणप्रधानः, आग्नेयमग्निगुणप्रधानमप्रतिहतबलत्वेनेत्यर्थः । नन्वेतावतैवादित्यचन्द्रवाताना बलवत्त्वमबलवत्त्वञ्च कथं भवतीत्याह–तावेतावित्यादि। कालो देवतारूपः, सच नित्यरूपोऽपि प्राणिनामदृष्टेन नानारूपेण गृहीतः सन् कदाचित् सूर्यबलवायुवलसोमबलादीन करोति। स्वभावः सूर्यस्य सौम्यांशक्षयकर्तृत्वादिः सोमस्याप्यायनादिः वायोर्विरुक्षणादिः, मार्गो
For Private and Personal Use Only