________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२०
चरक-संहिता। [ तस्याशितीयः विसर्गे पुनर्वायवो नातिरुक्षाः प्रवान्ति, इतरे पुनरादाने । दिनावधि एकपष्टिदिनैः शिशिरः, तत एकषष्टिदिनर्वसन्तः, ततः एकपष्टिदिनैग्रीष्मः, ततः किश्चिन्नानकषष्टिदिनवर्षाः, ततः किश्चिन्नानकषष्टिदिनैः शरत्, ततः किश्चिन्नानकषष्टिदिन हेमन्तः, इति पञ्चपष्ट्यधिकत्रिशतीदिनैः संवत्सरः । इति । शिशिरादीस्त्रीनित्युक्तौ ग्रीष्मान्तानिति लाभे पुनर्वचनं प्रकारार्थकादिशब्दसन्देहनिरासार्थम् । एवं परत्रापि बोध्यम् । वस्तुतस्तु शिशिरादीस्त्रीनित्युक्तेऽतद्गुणसंविज्ञानबहुव्रीहिणा वसन्तग्रीष्मवर्षा इति लाभवारणार्थ पुनग्रीष्मान्तानित्युक्तं ; वर्षादीन पुनहेमन्तान्तांस्त्रीनित्यत्र वर्षादीन पुनस्त्रीनित्युक्तेप्यतद्गुणसंविज्ञानबहुव्रीहिणा शरद्धेमन्तशिशिरा उत्तरायणमिति लाभात् । एवं त्रीन् ग्रीष्मान्तानित्युक्त तथालाभे पुनः शिशिरादीनिति पदं तद्गुणसंविज्ञानबहुव्रीहिज्ञापनार्थम् । तेन हिमशिशिरवसन्तान्तांस्त्रीनादानमित्यर्थव्यवच्छेदः। वर्षादीन पुनहेमन्तान्तांस्त्रीनित्यत्रापि हेमन्तान्तान पुनस्त्रीनित्युक्ते खतदगुणसंविज्ञानबहुव्रीहिणा ग्रीष्मवर्षाशरदो विसर्ग इति लाभात्। यदि च शिशिरादीस्त्रीनादानं वर्षादीन् हेमन्तान्तांस्त्रीन् विसर्ग विद्यादित्युच्यते, तथा शिशिरस्यादिहेमन्तः, तान शिशिरादीन् हिमशिशिरवसन्तानादानं विद्यात् । (विसर्ग) वर्षाणामादिग्रीष्मस्तान हेमन्तोऽन्ते येषां तान् ग्रीष्मवर्षाशरदो विसर्ग विद्यादिति लाभः स्यात्। तथा चादानं शिशिरादींस्त्रीन ग्रीष्मान्तान वर्षादीस्त्रीन् विसर्ग विद्यादित्युक्तावपि तथैव स्यात् । एवमादानं ग्रीष्मान्तांस्त्रीन वर्षादीन हेमन्तान्तांस्त्रीन विसर्गमित्युक्तावपि। एवमादानं शिशिरादीन ग्रीष्मान्तांस्त्रीन विसगै हेमन्तान्तांस्त्रीनित्युक्तावपि स्यात् तथेति ॥३॥
गङ्गाधरः-अथत्तुषट्कज्ञानार्थ सामान्यधम्ममादानलं शिशिरादीनां त्रयाणां विसगवं वर्षादीनां त्रयाणामुक्त्वा तदादानलं किंतावत्, विसगेखञ्च ? इत्याकाङ्क्षायां पूव्वेमुदगयनखेन धर्म क्रियादो प्रशस्तखेन प्राधान्यादा आदानस्याभिधाने कत्तव्यऽपि अत्र तु प्राधान्याद्विसगेस्य प्राणिवलजनकत्वेनादावेव विसर्गखधर्म दर्शयति-विसर्गे पुनरित्यादि। वायवो नातिरूक्षाः किश्चिद रुक्षस्निग्धा
चक्रपाणिः--विसर्गधर्मे निर्दिशति-विसर्गे पुनरित्यादि। यद्यपि चादानमादौ पठितं तथापि प्रतिलोमतन्तयुक्तपादौ विसर्गगुणकथनं, यदि वा प्रथममादानस्योत्तरायणरूपस्य प्रशस्तत्वादग्रेऽभिधानम्, इह तु विसर्गस्य बलजनकत्वेनाभिप्रेतत्वादग्रेऽभिधानम्। नातिरुक्षा इति सौम्यविसर्गकालसम्बन्धे मन्दीकृतरौक्ष्याः प्रवान्तीति । इतरे पुनरादान इति-अप्रशान्तातिरुक्षाश्चाग्नेया
For Private and Personal Use Only