________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१६
६ष्ठ अध्यायः
सूत्रस्थानम् । माण्वादिरौपाश्किः काल इत्युच्यते यत् तन्निरस्तम् । गमनस्य परमाण्वादिमानाभावाच्च। न हि गमनं परमाण्वादिदेशसंयोगमात्रं ; तादृशपरमाण्वादिसंयोगध्वंसस्तु कियता कालेनेति ? यावता कालेन स्यात्तावत् कालनिवन्धनमानसम्भवात् । सूर्यगमनस्य परमावादिः काल एव च लभ्यते । तस्मान्नार्कागमनं कालः। अयं खस्वभावजचन्द्राकमेघवातबलाबलादिप्रयोज्यशीतोष्णवर्षान्यतमभावात् । अयं संवत्सरो महाकालः ; तथाविधशीतोष्णवर्षान्यतमलक्षणावयवात् । संवत्सरातिरिक्तो न महाकालः ; तथाविधशीतोष्णवर्षान्यतमलक्षणावयवातिरिक्तावयवाभावात् । स्वस्वभावजेत्यनेन जगतां न कालखम् । अयञ्च कालो नित्यः , प्रत्यभिज्ञासिद्धनाशोत्पत्यभावात् । सोऽयं वैशाखीयः परमाण्वादिरिति ; स एवायं संवत्सर इत्यादिप्रत्यभिज्ञानस्य वयं संवत्सरो न स यस्मिन् भवान् काशीमगच्छदित्यादिभेदप्रतीत्या वाधितखाभावात क्रियोपाधिभिर्व्यवच्छेदेऽपि तस्य नातिरिक्तखात् । यथायं युवा न स यस्य बालकस्य भवान् प्रिय आसीदित्यादिभेदप्रत्ययेन देवदत्तादेर्वालकस्य युवखेन प्रत्यभिज्ञानं न बाध्यते। स एव बालोऽयं युवेत्यभेदप्रत्ययात्। तथा स एव भवदीयकाशीगमनसंवत्सरोऽयं संवत्सरः ; भवान यस्मिन् संवत्सरे काशी यस्मिन् माघेऽगच्छत् सोऽयं माघः पुनरागत इत्यादिप्रत्ययादिति। इत्थं व्यवस्थितं संवत्सरमृतुभेदेन पड़ङ्गं विद्यात्। तऋतक के, कथं वा स्युः ?-इत्याह तदिति । यः संवत्सरस्तस्येदमवयवरूपमिति । तदादित्यस्योदगयनमुत्तरायणमादानञ्चेत्यनान्तरम्, शिशिरादीन् ग्रीष्मान्तान् त्रीन् । दक्षिणायनं विसगेञ्च इत्यनान्तरम् । वर्षादीन् हेमन्तान्तान त्रीऋतूनिति द्वयं विद्यात् । तदित्युदगयनलिङ्गभाजिखान्नपुसकम्, उदगयनमादानञ्चेति चकारो विकल्पे समुच्चये वा। ___ नन्दगयनं कति दिनानि, दक्षिणायनश्च कति दिनानीति ? अत आहत्रीनित्यादि । बहुवचनान्तखेन प्रत्येकमन्वयादुदगयने चादाने चोद्देश्यविधेयभावेन मिलितमिति शिशिरवसन्तग्रीष्मा उदगयनमादानश्च भवन्ति न खेको वा द्वौ वोदगयनं, वो वैको वा ऋतुरादानमित्यर्थः । इत्थश्च यस्मिन् दिने यस्मिन्नेव परमाणुकाले भगवानादित्य उत्तरां दिशमयते तत्कालावधि यावदुत्तरदिगयनमुदगयनम् । अन्यदक्षिणायनम् । एवं वर्षादीनित्यत्र त्रीनिति पदमनुवत्तते । बहुवचनेन पूर्ववद व्याख्येयम् । एतेनादित्यस्य सकरादिराशिसंक्रमणेन माघादिद्विद्विमासात्मका ऋतवः शिशिरादयः स्युरिति यैरुच्यते तन्निरस्तम् । उत्तरदक्षिणायनाभ्यामेव शीतोष्णादिकम्म हासप्रत्ययादुत्पत्तेश्च । किन्तृत्तरायन
For Private and Personal Use Only