________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१८
चरक-संहिता। ( तस्याशितीयः गुव्यः, ता उपयुज्यमाना मन्दकिरणखाभानोः सतुषारपवनोपष्टम्भितदेहानां देहिनामविदग्धाः स्नेहाच्छत्याद्गौरवादुपलेपाच्च श्लेषणः सञ्चयमापादयन्ति । स सञ्चयो वसन्तेऽक रश्मिप्रविलायित ईपतस्तब्धदेहानां देहिनां श्लैष्मिकान् व्याधीन जनयति ; ता एवोषधयो निदाघे निःसारा रुक्षा अतिमात्र लध्व्यो भवन्ति आपश्च, ता उपयुज्यमानाः सूय्यप्रतापोपशोषितदेहानां देहिनां रौक्ष्याल्लघुखाद्वै शद्याच्च वायोः सञ्चयमापादयन्ति, स सञ्चयः प्रादृषि चात्यर्थजलोपक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवातवर्षेरितो वातिकान् व्याधीन् जनयति। एवमेष दोपाणां सञ्चयप्रकोपे हेतुरुक्त इति ।"
भवतान्तु कालस्य दिनस्य विनिगमनाभावेन मिथ्याहीनातिलक्षणजे भवतो भावानामेते व्यापत्सस्पत्ती स्वभावजे तु न स्त इति।। ___ यदि च समरात्रिन्दिवेऽहोरात्र एव समशीतोष्णस्वभावे भवतो ये भावानां सम्पद्वनापत्ती ते कालस्वभावजे इत्युच्यते--तदाऽस्माकमिवानियताः कालयोगातियोगमिथ्यायोगा न भवन्ति, भवन्ति च नियताः, भवन्विति चेत्-तहि दिनरात्रोई दिहासाभ्यां ग्रीष्यादौ कालातियोगायोगावन्यथाभावेन मिथ्यायोगश्च युगपदेव स्युः । तत्फलञ्च पित्ताद्यतिद्धयादिकं सममेवावयोरिति चेत्, तथापि दिनरात्रयोर्मानद्धिहासलक्षणावतियोगायोगावधिको स्खलक्षणातिशयन्यूनताभ्यां स्वीक्रीयेतां भवद्भिरिति, क्रियतां च नियतानियतकालातियोगादीनां फलव्याध्यादुरपदेशः । किञ्च यदि समरात्रिन्दिवकालो महाकालः, तस्य रात्रिदिनयोहासद्धिः कारणमर्कः अथवा चन्द्र उच्यते, तदा चन्द्रार्कयोर्गतिभेदे कोऽपरो हेतुः ? तौ च चन्द्राको महाकालचक्रस्थिती महाकालस्य चक्रवद्मणस्वभावेन मार्ग परिगृहीतौ दक्षिणोत्तरमये ते। समरात्रिन्दिव एवाहोरात्रात्मकस्तु महाकालो न स्वान्तर्गतदिनरात्रिद्धिहासकरकालविशेषस्वभावमार्गप्रतिपन्नौ चन्द्राको करोति । करोति चेत्, सव्वेदैव दिनरात्रोट द्धिहासौ स्याताम् । न ग्रीष्मादौ ग्रीष्मादिलक्षणककालभावेन ग्रीष्मादावपि समरात्रिन्दिवाहोरात्रात्मककालस्वभावमार्गानुवृत्त्या वृद्धिहासासम्भवात्, सम्भवाच्च साम्यस्येति। तस्मात् समरात्रिन्दिवोऽहोरात्रो न न महाकाल इति । इत्थञ्च संवत्सररूपस्य महाकालस्य चक्रवर्द्रमणस्वभावात् चन्द्राकेवातवारिदानां बलावलगमनागमनाविर्भावतिरोभावादयो भवन्ति । तत्र विरोधिधर्माणामेकस्य बलेऽपरस्याबलखमिति शीतोष्णकरयोमिथो हीनाधिकसमवलहीनाधिकसमलक्षणानि स्युरिति। एतेनार्कगमनादेव पर
For Private and Personal Use Only