________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इष्ठ अध्यायः सूत्रस्थानम् ।
३१७ नद यथा-निमित्तानुरूपेण कश्चित् प्रहरादूद्ध भुङ्क्ते ; कश्चित् प्रहरद्वयादित्यादि। नित्यन्तु सार्द्धप्रहरद्वयाभ्यन्तरे दिने। रात्रौ प्रहरादागिति । तदपि स्वस्थवृत्तं भवदपि नात्र दिनादिभेदेन वत्सरस्याङ्गमुक्तम् ऋतुसात्म्यशाने हेतुभूतत - शानार्थमृतुभिवेत्सरस्याङ्गभेद उपदिष्ट इति ।
ननु संवत्सरकालो यथैवर्तु भेदेन भिद्यते : दिवसश्च तथा। महाकालः शीतोष्णवर्षलक्षणैरनुमीयते ; तदात्यैव पक्षमासत्त्वेयनवत्सरयुगादय उच्यन्ते। यथा संवत्सरावृत्त्या युगादिद्विपरार्द्धान्तः काल उच्यते भवद्भिः। उक्तं हि सुश्रुते-“तत्र पूर्वाह्न वसन्तस्य लिङ्ग, मध्याह्न ग्रीष्मस्य, अपराह्न प्रादृषः, प्रदोषे वार्षिकं, शारदमर्द्धरात्रे, प्रत्यूषसि हैमन्तमुपलक्षयेत् । एवमहोरात्रमपि वर्षमिव शीतोष्णवर्ष लक्षणं दोषोपचयप्रकोपोपशमनैर्जानीयात्” इति । अत्रोच्यते-संवत्सर इव शीतोष्णवर्षलक्षणोऽपि दिवसो न महाकालतयोपलभ्यते। ग्रीष्मत्त कदिवसस्य यथा शीतोष्णवर्षलक्षणवं, न तथा हेमन्तत्तु कदिवसस्य । तत्र हि शीतमधिकमुष्णखमल्समनल्पञ्च वर्ष नीहारस्येति । ग्रौष्मिकदिवसातिरिक्तवं हैमन्तिकदिवस्येति । संवत्सरो महाकालो न दिवसः। न चैवं हेमन्तादीनां स्वलक्षणादतिशयशीतोष्णादिलक्षणखे तस्य संवत्सरस्यातिरिक्तववारणाथ कालातियोगो भवद्भिवक्तव्य इवास्माभिहमन्तिकदिवसस्य दिवसखलक्षणातिशयलक्षणवेन दिवसातियोगो वाच्यः, स एव कालातियोग इति वाच्यमस्माकम् । कालातियोगे हि ऋतुव्यापत्तिजा भावव्यापत्तयो भवन्ति यथा, तथा युष्माकमपि स्वलक्षणयोगे भवन्तु ऋतुव्यापत्तिजा भावव्यापत्तय इत्यापत्तिः स्यात् । ननु नौष्मिकदिवसस्य प्राहादीनां यथा कफादिजनकवं न तथा हैमन्तिकदिवसस्येति। युष्माकमिवास्माकं ते एव कालातियोगलक्षणत. व्यापत्तिजा व्याधयो भवन्त्येवेति चेत् न, उक्त हि ‘स्वलक्षणयोगे ऋतुस्वभावजे भावानां सम्पद्व्यापत्ती।"तद्यथा- “भाद्रपदाश्वयुजौ वर्षाः,कार्तिकमार्गशीषों शरत्, पौषमाघौ हेमन्तः, फाल्गुनचैत्रौ वसन्तः, वैशाखज्यैष्ठौ ग्रीष्मः, आषाढ़श्रावणौ प्राडिति। तत्र वर्षास्वोषधयस्तरुण्योऽल्पवीर्य्याः, आपश्चाप्रसन्नाः क्षितिमलप्रायाः। ता उपयुज्यमाना नभसि मेधावतते जलपक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवातविष्टब्याग्नीनां विदह्यन्ते, विदाहाच्च पित्तसञ्चयमापादयन्ति, स सञ्चयः शरदि प्रविरलमेघे वियत्युपशुष्यति पङ्के ऽककिरणप्रविलायितः पैत्तिकान् व्याधीन् जनयति। ता एवौषधयः कालपरिणामात् परिणतवीर्या बलवत्यो हेमन्ते भवन्ति, आपश्च प्रसन्नाः स्निग्धा अत्यर्थ
For Private and Personal Use Only