________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१६ चरक-संहिता।
[ तस्याशितीयः मायत्ते। स मूक्ष्मामपि कलां न लीयते इति कालः, संकलयति कालयति वा भूतानीति कालः। तस्य संवत्सरात्मनो भगवानादित्यो गतिविशेषणाक्षिनिमेषकाष्ठाकलामुहूर्ताहोरात्रपक्षमासत्त्वयनसंवत्सरयुगपविभागं करोति ।" तन्त्रान्तरेऽपि “महदादिगुणान् यः परिणामयति स कालो महदादिगुणपरिणामस्वभावः स्वतो निविशेष आद्यन्तशून्योऽयमुपादायात्मानं पुरुषो विश्वरूपेण ससज्ज। येन चाव्यक्तमूत्तैिना ब्रह्मतन्मात्रं विश्वमिदं पृथक् प्रकाशयाम्बभूव । स पुनरग्रे यथाऽऽप्तीत् तथैवाऽधुना वत्तते वर्तिष्यति चोत्तरमीगेव । तेन च यावताऽयं भगवानादित्यः पर्यटन्नतिक्राति परमाणुमात्र देशं तावानुच्यते परमाणुः कालः, परमाणू द्वावणुः, षट् परमाणवस्त्रसरेणुः स त्रयोऽणवः । त्रयस्त्रसरेणवस्त्रुटिः, शतत्रुटिवेधः, यो वेधा लवः, त्रयो लवा निमेषः, त्रयो निमेषाः क्षणः, पञ्च क्षणाः काष्ठा, पञ्चदश काष्ठा लघु, पञ्चदश लघूनि नाड़िका, द्वे नाड़िके मुहूत्तेः, त्रिंशन्मुहूत्तो अहोरात्रः, पञ्चादशाहोरात्राः पक्षः शुक्लः कृष्णश्चेति, द्वौ पक्षो मासः, मासौ द्वाटतुः, त्रय ऋतवोऽयनं तच्च दक्षिणमुत्तरं, ते च संवत्सरः। इत्येवं परमाण्वादिना संवत्सरान्तेन कालेन भगवानादित्यो ग्रहनक्षत्रादिसमवेतं कालचक्रमधिष्ठितः पय्यटति । एवमेतज्जगत्। पुनरथ परिसंवत्सरान्ते तथैव पयंति इत्यादि।
तत्र खलु परमाणुदेशस्वणुदेशस्यार्द्धम्। अणुस्तु त्रसरेणोस्तृतीयांशो देशः।त्रसरेणु पुनर्गगनोपरि वायुना विनापि यद्रजो निसर्गादुडडीयमानपतनशीलं भूस्थानादवलोक्यते लोकः स उच्यते। उक्तं हि "अणुद्धौ परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः। जालावरश्मावगतः खमेवानुपतन्नगात् ॥” इति। कालो. न्मानं पुनः पञ्चगुञ्जकमाषण तुलितषट्-पलताम्रनिम्मित पात्रं प्रस्थमितजलभाजनं चतुमाजकताम्रनिम्मितचतुरङ्गलशलाकया कृच्छिद्रं कालन यावता जले निमजति तावान् कालो नाडिकेति बोध्यम् । “पाश्चगौजिकमाणेण षट्पलं ताम्रभाजनम् । जलप्रस्थावकाशान्य चतुर्भिस्ताम्रमाषकैः । चतुरङ्गुलया छिद्रीकृतं तञ्च शलाकया । मज्जत्यम्भसि कालेन यावता सैव नाडिका" ॥ इति ।
ननु परमा वादिभेदेनानन्ताङ्ग विद्यात् इति नोच्यते कथमिति नाशङ्काम्, ऋतुभेदनाक्ता ऋतूनां प्रत्येकमाहाराचारविशेषोऽत्र वक्तव्य इति प्रयाजनं प्राधान्येन लभ्यते, दिनादीनान्तु प्रतिदिनमाहाराचारनिबन्धनसात्म्यविभिन्नता नियमाभावेन प्रयोजनाभावात् प्रातःकृत्यादिविभिन्नता हि प्रयोजनवती सर्वदिनमेकरूपा विना नैमित्तिकी क्रियां तच्च चेष्टाहारव्यपाश्रयदिनसात्म्यमेव ।
For Private and Personal Use Only