________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः] सूत्रस्थानम् ।
३१५ इह खलु संवत्सरं षडङ्गमृतुविभागेन विद्यात्। तत्र आदित्यस्योदगयनमादानश्च त्रीनृतून् शिशिरादीन् ग्रीष्मान्तान् व्यवस्येत् ; वर्षादीन् पुन:सन्तान्तान् दक्षिणायनं विसर्गच्च ॥३॥ सात्म्येन मात्राशी चेत् स्यात् तदा तस्याशिताद्यादाहाराबलं वर्णः सुखमायुश्च वद्धते इति । आहारद्रव्येण तहतविपरीतगुणेन तस्मिन्नेबत्तो पुरुषे सुखजनक उपयोग आश्रीयते ; एवं चेष्टयेति न प्रतिज्ञाहानिदोष इति ॥२॥
गङ्गाधरः--नन्वेवमस्तु । ऋतुः पुनः कः, कीदृशो वा ? इत्याह-इहेत्यादि । इह खलु संसारे संवत्सरं महाकालं पड़ङ्गं विद्यात् । केन केनाङ्गेनेत्याह-ऋतुविभागेन ऋतुभेदेन । नन्वेवमस्तु । ऋतुसात्म्यशाने हेतुमृतु वक्तुकथं संवत्सर उच्यते इति चेत् ? न। संवत्सरातिरिक्तकालस्याभावेन संवत्सरस्यैवाङ्गानि पड़तव एव सन्ति न खधिकाः, इति ज्ञापनार्थ संवत्सरस्योक्तिः। न हि षड़तुधम्मशीतोष्णवर्षातिरिक्तः कश्चित् काललिङ्ग धम्मोऽस्ति। वक्ष्यति हि “शीतोष्णवर्षलक्षणः कालः” इति ॥
तस्यात्त्यैव हि युगादयो व्यवह्रियन्ते। कृतादीनान्तु यद्यत् स्वलक्षणं सत्यधर्मादिकं तत्तन्न कालस्य लिङ्गमिति ; सुश्रुते चोक्तं “कालो हि नाम भगवान् स्वयम्भूरनादिमध्यनिधनः । अत्र रससम्पद्व्यापत्ती जीवितमरणे च मनुष्याणा
चक्रपाणिः-ऋतुज्ञानमन्तरत्तु सात्म्यज्ञान न सम्भवतीतृवतूनामुपयुक्तस्वरूपज्ञानार्थमाहइहेत्यादि। ऋतुप्रतिपादनप्रस्तावे संवत्सरं विद्यादिति संवत्सरप्रतिपादनमृतूनामेव मिलितानां संवत्सरप्रतिपादनार्थे ; मेलकश्च बुद्धया व्यवष्ट्रियते न तु परमार्थत ऋतूनां मेलकोऽस्ति ; ऋतूनां संवत्सरात्मकत्वं पुनःपुनस्त एवर्त्तवः परावर्तन्त इति ज्ञानार्थमवश्यं प्रतिपादनीयम् । इहेतीह प्रकरणे, पड़ङ्ग विद्यादित्यत्र तु रोगभिपग्जितीयादौ तत्तत्कार्यवशादन्यथापि ; उक्तञ्च-"शीतोष्णवर्षलक्षणः कालः” इति । षडङ्गमिति समाहारे द्विगुः, ऋतुव्यतिरेकेण संवत्सरस्याविद्यमानत्वात् ; यदि वा समुदायिभ्योऽन्यः समुदाय इत्याश्रित्य बहुव्रीहिः कार्यः। तत्रेति ऋतुविभागकथने । उदक उत्तरां दिशं प्रति अयनं गमनम् ; आददाति क्षपयति पृथिव्याः सौम्यांशं प्राणिनाञ्च बलमित्यादानम्। त्रीन् शिशिरादीनित्यनेनैव लब्धेऽपि ग्रीष्मान्तत्वे ग्रीष्मान्तानिति शिशिरस्यादिरिति विग्रहस्य तथादिशब्दस्य प्रकारवाचिताया: प्रतिषेधार्थम् । एवं हेमन्तान्तानिति व्याख्येयम् । दक्षिणां दिशं प्रति अयनं दक्षिणायनं, विसृजति जनयत्याप्यमंशं प्राणिनाञ्च बलमिति विसर्गः। संज्ञाप्रणयनञ्च व्यवहाराथै, निरुक्तिप्रतीयमानार्थप्रतिपादनार्थञ्च ॥३॥
For Private and Personal Use Only