________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः। अथातस्तस्याशितीयमध्यायं व्याख्यास्यामः,
इतिह स्माह भगवानात्र यः ॥ १॥ तस्या शिताद्यादाहाराट् बलं वर्णश्च वर्द्धते । तस्यर्त्तसात्म्यं विदितं चेष्टाहारव्यपाश्रयम् ॥ २॥ ननु मात्रावद्धि अशनमशितमनुपहत्य प्रकृतिं बलवणसुखायुषा योजयत्युपयोक्तारमवश्यमिति यत् प्रतिज्ञातं, तद् व्याहन्यते हेमन्तशिशिरादिष्वभिमताहाराद् व्याध्युत्पत्तिदर्शनादिति । तत्प्रतिशास्थापनार्थ तस्याशितीयमध्यायमारभते । अथात इत्यादि। प्राग्वद्याख्यातव्यम् ॥१॥
गङ्गाधरः-तस्याशिताधादित्यादि । तस्य मात्राशिनः पुरुषस्याशिताधादशितात् खादितात् पीतात् लीढ़ाचाहाराद् बल, वर्णः, चकारात् सुखायुश्च अवश्यं वर्तते । तस्य मात्राशिपुरुषाशिताद्याहारस्य तु सात्म विदितं विख्यातं लोके । ऋतौ सात्माम् ऋतुगुणविपरीतगुणवत्तया। सात्मासुपशयः सुखजनन उपयोगः । तच्च यस्मात् चेष्टाहारव्यपाश्रयम् । चेष्टा व्यायामव्यवायाभ्यङ्गादयः, आहारा अशितादयः, ताभ्यां चेष्टाहाराभ्यां विशेषेण अप विषय्ययेण हमन्ताद्यतुगुणविपरीतगुणवत्तया आश्रयते यत् सात्म्यं सुखजनक उपयोगः, तत् चेष्टाहारव्यपाश्रयं ; चेष्टाव्यपाश्रयमाहारव्यपाश्रयमिति द्विधा । एतेनैतदुक्तं भवतिमात्राशिनो यदशितं खादितं पीतं लीढं वा आहारजातं तत् यद्धमन्ताद्यतुगुणविपर्यायेण चेदभ्यवहाय्यते तदा तदृतुसात्म्यं तस्याहारस्येत्येकमाहारजनितमृतुसात्म्यं वा ; चेष्टा व्यायामादिः, सा चेद्धेमन्तादिगुणविपरीतगुणा स्यात् तदा तदृतुसात्मा तस्याश्चेष्टाया इत्यपरमेकं चेष्टाजनितमृतुसात्माम् । इत्थमेव तु
चक्रपाणिः-मात्राशितीये मावावदाहारस्य बलादिहेतुत्व प्रतिपादितं, तच्च ऋतुसात्म्यापेक्षकृतस्याहारस्य भवति ; तेन ऋतुप्रविभागपूर्वकमृतुसात्म्याभिधायकं तस्याशितीयं ब्रूते। अशिताचादिति अशितपीतलीदजग्धात् । वर्णश्चेति चकारेण पूर्वाध्यायोक्तसुखायुषी अपि गृहेचते ; यदि वा बलवर्णाभ्यामेव नान्तरीयं कृत्स्न धातुसाम्यकार्य सुखादि गृह्यते । विदितमित्यनेन सम्यग्ज्ञानपूर्वकमृतुसात्म्यानुष्ठान दर्शयति, चेयाग्रहणेन व्यवायव्यायामाभ्यानादीनां ग्रहणं ; चेटाहारव्यपाश्रयं चेसाहारगोचरम् ।। १२।।
For Private and Personal Use Only