________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५म अध्यायः ]
सूत्रस्थानम् । भवति चात्र ।
वृत्त्युपायान् निषेवेत ये स्युर्धर्माविरोधिनः । शममध्ययनञ्चैव सुखमेवं समश्नुते ॥ ४४ ॥ तत्र श्लोकाः । मात्रा द्रव्याणि मात्राञ्च संश्रित्य गुरुलाघवम् । द्रव्याणां गर्हितोऽभ्यासो येषां येषाञ्च शस्यते ॥ अनं धूमवत्तिश्च त्रिविधा वर्त्तिकल्पना ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
३११
1
धूमपानगुणाः कालाः पाने मानञ्च यस्य यत् ॥ गङ्गाधरः- अथ प्रायेण प्रधानभूततया शरीरप्रत्यवेक्षणमुक्ता स्वस्थेन यत् कत्तव्यं तदाह-त्युपायानित्यादि । वृत्तिर्वर्त्तनं कतिकालावस्थानं तस्योपायान् प्राणेषणानन्तर धनेषणोपायान् कृषिपाशुपाल्यादोन तिस्रषणीये वाच्यान् धर्माविरोधिनस्तानेव निषेवेत । शमं शान्तिमध्ययनञ्चैव । चकारादन्यान्यपि धर्मकर्माणि मोक्षोपायान निषेवेत । एवं सत्कृत्य सेवनेन स्वास्थ्ये सति स्वस्थपुरुपण वृत्त्युपायाः सेवितुं शक्यन्ते ; अतः सुतरामर्थलाभोऽर्थे सति अनि त्यभावात् शमं वेदाध्ययनं चकाराद्धम्मक्रिया मोक्षोपायाश्च सेवितु शक्यन्ते निश्चिन्तत्वात् । सुतरामतो धम्मः स्यात् ; एवं सति सुखं समश्नुते स्वर्गापवर्गान्यतरं प्राप्नोतीत्यर्थः । इति चतुर्गानुष्ठानं दर्शितम् ॥ ४४ ॥
;
गङ्गाधरः-- अध्यायार्थमुपसंहत्तुमाह-तत्र श्लोका इत्यादि । मात्रेत्यादि । मात्राशी स्यादित्यारभ्य वेदितव्यं भवतीत्यन्तेन मात्रा, तत्र शालीत्यारभ्य मात्रमेवापेक्षन्ते इत्यन्तेन मात्रां संश्रित्य द्रव्याणि च न चैवमित्यारभ्यावश्यमित्यन्तेन मात्राञ्च संश्रित्य गुरुलाघवम्, भवन्ति चात्रेत्यारभ्य न शीलयेदित्य न्तेन द्रव्याणां विगर्हितोऽभ्यासः, षष्टिकेत्यारभ्य अनुत्पत्तिकरञ्च यदित्यनेन येषाञ्च द्रव्याणामभ्यासः शस्यते । अत ऊर्द्धमित्यारभ्येन्दुवदित्यन्तेनाञ्जनं,
चक्रपाणिः - प्रधानभूतां शरीरप्रत्यवेक्षां कृत्वा स्वस्थेन सता यदन्यच्च कर्त्तव्यं तदाहवृत्युपायानित्यादि । वृत्तिर्वर्त्तनं तस्योपायाः कृप्यादयो धनैषणायां तिस्रषणीये वाच्याः । शमः शान्तिः, अध्ययनं वेदाध्ययन' निषेवेतेति सम्बन्धः । एवं सति सुखं समश्नुते प्राप्नोति । एतेन कृष्यादिभ्योऽर्थः, शान्त्यध्ययनाभ्यां धर्म्मः, अर्थधम्र्म्माभ्याञ्च सुखलक्षणः काम इति त्रिवर्गानुष्ठान दर्शितं भवति ॥ ४४ ॥
चक्रपाणि: - मात्रेत्यादि । अध्यायार्थसंग्रहः, मात्रोक्ता 'यावद्धपस्याशनम्' इत्यादिना ; तथा द्रव्याणि “तत्र शालि” इत्यादिना; मात्राञ्चाश्रित्य गुरुलाघवमिति 'प्रकृतिलघून्यपि मात्रा -