________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१०
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता |
●
ईतेर्विधमनं बल्यं गुप्त्यावर णशंकरम् । घर्मानिलरजोऽम्बुन छत्तधारणमुच्यते ॥ ४१ ॥ स्खलतः संप्रतिष्ठानं शत्रु णाञ्च निसूदनम् । अवष्टम्भनमायुष्यं भयनं दण्डधारणम् ॥ ४२ ॥ नगरी नगरस्येव रथस्येव रथी यथा ।
मात्राशितीय:
स्वशरीरस्य मेधावी कृत्येष्ववहितो भवेत् ॥ ४३ ॥
गङ्गाधरः- धार्यत्वसामान्याच्छत्तधारणं गुणत आह-- तेरित्यादि । ईतिभाविदुःखं तस्या विधमनं नाशनं, गुप्तिः पिशाचादिभ्यो रक्षणं, ताश्चावरणश्च शञ्च करोतीति तत्, धर्म्म आतपः, रजो धूलिः ॥ ४१ ॥
गङ्गाधरः- धार्यत्वसामान्याद्दण्डधारणमाह-स्खलत इत्यादि । स्खलतः शक्तिविरहेण निमित्ततो वा पततः पुरुषस्य संप्रतिष्ठानं सम्यक् प्रति स्खलनविपर्ययेण स्थानं येन तत् तथा । शत्रूणाञ्च स्वानिष्टमापातत आचरताम् । अवष्टम्भनं बलाधानकरं भयन्न श्वसर्पादिभ्यः ॥ ४२ ॥
गङ्गाधर – अथानुक्त स्वस्थविध्युपदेशार्थमुक्तविधिषु प्रमादनिषेधार्थ चाह नगरीत्यादि । नगरमधिकृततयाऽस्यास्तीति नगराधिकारी राजा यथा नगरस्य स्वान्तर्निवसतः नगरोच्छेदहेतुदृष्टजनस्य सम्बाधां वारयितुं सदा राजन्यकृत्येcarfecः स्यात् तथा मेधावी सत्कृत्यस्मरणशाली पुरुषः स्वशरीरस्य स्वान्तनिवसतः स्वशरीरोच्छेदहेतोर्दुष्टवातादेः सम्बाधां वारयितुं कृत्येष्वनुक्तेषूक्तेषु चावहितोऽप्रमादशाली भवेत् । रथी च यथा रथस्य भङ्गे वाह्यहेतु' विषमस्थानगमनपतनादिकं वारयितुं सदा तदुपाङ्गकृत्येष्ववहितो भवेत् तथा च मेधावी स्वशरीरस्य वाह्यानामुच्छेदकराणामभिघातादीनां सम्बाधां वारयितु ं कृत्येष्वनुक्तेश्र्क्ते चावहितो भवेदित्यर्थः ॥ ४३ ॥
For Private and Personal Use Only
च्चक्षुष्यम् । ईती रोगादिदुदैवं, गुप्तिः पिशाचादिभ्यो रक्षा, शंकरं कल्याणकरम्, अवटम्भन बलप्रदम् । भयव सर्पादिभ्यः ॥ ३५-२२ ॥
चक्रपाणिः सम्प्रत्यनुक्तस्वस्थविध्युपसंहारार्थं तथोपदिष्टस्यावधानेन करणार्थमाह-नगरी - त्यादि । कृत्येषु करणीयेषु उक्तष्वनुक्तषु च नगरदृशन्तेनान्तरप्रत्यवाय हेतुविघातकारिणि कृत्येऽवधानं दर्शयति ; रथदृ टान्तेन च वाह्यस्पर्शादिपरिहार के कृत्येऽवधानं दर्शयति । नगरोच्छेदे ह्यान्तरो दुष्टजनसम्बन्ध एव हेतुः प्रायो भवति, रथभङ्ग े तु वाह्यश्वभ्रविषमपतनादिश्च ॥ ६३॥ नियमनमिति चक्रपाणिधृतः पाठः ।