________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ अध्यायः सूत्रस्थानम् ।
३०६ मेध्यं पवित्रमायुष्यमलक्ष्मीकलिनाशनम् । पादयोर्मलमार्गाणां शौचाधानमभीक्षणशः ॥ ३८॥ पौष्टिकं वृष्यमायुष्यं शुचि रूपविराजनम्। केशश्मश्रु नखादीनां कल्पनं संप्रसाधनम् ॥ ३६॥ चक्षुष्यं स्पर्शनहितं पाढयोर्व्यसनापहम् ।
बल्यं पराक्रमसुखं वृष्यं पादत्रधारणम् ॥४०॥ मङ्गलाय हितम् । श्रीमत् शोभाकर जनकत्वेनास्त्यस्येति मतुप्। व्यसनं सर्पपिशाचायभिहननं, स्मृद आश्रवण-हननयोश्चौरादिकः; हर्षयतीति हर्षणम्, काम्यं प्रागुक्तम्, ओजोहितमोजस्यं, रत्नघटितमाभरणं, रत्नानि मणिमाणिक्यम् ॥३७॥ ___ गङ्गाधरः-अथायुप्यादिसाययात् शौचाशनं कम्मत आह-मेध्यमित्यादि। मेध्यं मेधायाः हितं मनोश मित्यर्थस्तस्य मेधास्थानत्वात् । मलमार्गाणि द्वे अधः सप्त शिरसीत्यादिना वाच्यानि। शौचं शुचिवं तस्य मृजलाभ्यां जलेन चाधानमभीक्ष्णशः पुनःपुनविधानम् ॥ ३८ ॥
गङ्गाधरः-आयुष्यादिसामान्यात् केशादीनां छदनप्रसाधने गुणत आह-- पौष्टिकमित्यादि । शुचि शुचिजनकं, रूपविराजनमिति रूपविराजनं, कल्पनं छेदनं, संप्रसाधनं यथायोग्यं केशस्य नैर्मल्यादिसाधनं श्मश्रुणश्च विरलतादिसाधनमिति । आदिना नासारोमच्छेदनादि, स्त्रीणाञ्च पादयोरलक्तकादिदानमित्यादिकम् ॥३९॥
गङ्गाधरः-वृष्यवादिसाधात् पादत्रधारणं गुणत आह-चक्षुष्यमित्यादि। पादयोव्र्यसनं पादगताभिधातादिक्लेशः, पराक्रमाय सुखं, पादत्रमुपानत् ॥४०॥ धानं पानीयेन मृदा च, अभीक्ष्णशः पुनःपुन, शौचमिति शुचिताकारक, कल्पनं छेदनं, सम्प्रसाधन मण्डनम्, एतच्च यथायोग्यतया योजनीयम् । केशानां प्रसाधन सम्यग्बन्धनादि, स्मश्रूणां कल्पनमेव, नखस्य तु कल्पनमलतकादिदानेन प्रसाधनञ्च ; आदिग्रहणेन नासारोमकल्पनादि गृह्यते। पादयोरिति स्पर्शनहितमित्यनेन च सम्बध्यते, पादत्रं पादधी पादुकामिति यावत् ; अत्र च वृष्यत्वचक्षुष्यत्वे प्रभावात्, यदि वा पादसम्बद्धनेत्रपोषिकानाड़ीप्रत्यवायहरणा
* "अलक्ष्मीकविनाशनम्' इति पाठस्तु न साधीयान् समासान्त-क-विधानस्य असम्भवात् ।
For Private and Personal Use Only