________________
Shri Mahavir Jain Aradhana Kendra
३०८
www.kobatirth.org
चरक संहिता |
पवित्र' वृष्यमायुष्यं श्रमस्वेदमलापहम् । शरीरबलसन्धानं स्नानमोजस्करं परम् ॥ ३४ ॥ काम्यं यशस्यमायुष्यमलक्ष्मीघ्न प्रहर्षणम् । श्रीमत् पारिषदं शस्त' निर्मलाम्बरधारणम् ॥ ३५ ॥ वृष्यं सौगन्ध्यमायुष्यं काम्यं पुष्टिबलप्रदम् । सौमनस्यमलक्ष्मीनं गन्धमाल्यनिषेवणम् ॥ ३६ ॥ धन्यं माङ्गल्यमायुष्यं श्रीमद्वासन सूदनम् । हर्षं काम्यमोजस्य रत्नाभरणधारणम् ॥ ३७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
謝
गङ्गाधरः—– उद्वत्तनानन्तरं स्नातव्यमिति शरीरपरिमार्ज्जनादनु स्नानं गुणत आह - पवित्रमित्यादि । पूयतेऽनेनेति पवित्रं वृष्यमित्यादिकं प्रभावात् । शरीरबलसन्धानं शरीरं बलेन सन्दधातीत्यर्थः । ओजस्करं परमिति ओजोधातु करं श्रेष्ठम् । अत्र “स्नानमद्दि तनेत्रास्य-कर्णरोगातिसारिषु । आध्मानपीन - . साजीर्णभुक्तवत्सु च गर्हितम्” इति बोध्यम् ॥ ३४ ॥
: मात्राशितीयः
गङ्गाधरः- स्नात्वा वासोऽपिदध्यादिति स्नानानन्तरं वस्त्रधारणं गुणत आहकाम्यमित्यादि । काम्यं कमनीयतया कामाय हितं यशस्यादिकं प्रभावात्, श्रीमत् शोभाजननं, पारिषदं परिषद इदं पारिषदं शस्तम् । अथवा श्रीमतां राज्ञां राजमात्राणाञ्च पारिषदो येन तत्, निम्लपदं समलस्य व्यवच्छेदार्थमेतद्विपय्यगुणज्ञापनार्थञ्च ॥ ३५ ॥
गङ्गाधरः- वस्त्रं विधार्य गन्धमाल्ये धायें, अतस्तयोः कर्म्माह-हृष्यमित्यादि । सौगन्ध्यं सुगन्धिजननं, सौमनस्यं सुष्ठु मनः क्रियतेऽनेन तत्, सुमनसे हितं वा । अलक्ष्मीः दुःखजनकादृष्टकारिणी ॥ ३६ ॥
/
गङ्गावर - गन्धमाल्यधारणानन्तरं रत्नं विभृयादिति ततोऽनन्तरं रत्नाभरणधारणं कम्मत आह—- धन्यमित्यादि । धन्यं धनित्वसूचकं माङ्गल्यं चक्रपाणिः– श्रीमदिति शोभायुक्त, परिषदि शस्तं पारिषदं शस्त्रं माङ्गल्यम् । व्यसनं सर्पपिशाचाद्यभिघात', रत्नवदाभरणानि, रत्नन्तु विशुद्ध माणिक्यही रकमुक्ताफलसुवर्णादि । शौचा
For Private and Personal Use Only
पवित्रं वृष्यमायुष्यं काम्यं पुरिबलप्रदम् ।
सौमनस्यमलक्ष्मी स्नानमोजस्करं परम् ॥ इति पाठान्तरम् ।