________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः
सूत्रस्थानम् ।
३०७ खरत्वं शुष्कता रौक्ष्यं श्रमः सुतिश्च पादयोः। सद्य एवोपशाम्यन्ति पादाभ्यङ्गनिषेवणात् ॥ जायते सौकुमार्यश्च बलं स्थैर्यच पादयोः । दृष्टिः प्रसादं लभते मारुतश्चोपशाम्यति॥ न च स्याद् + गृध्रसीवातः पादयोः स्फटनं न च । न शिरास्नायुसङ्कोचः पादाभ्यङ्गन पादयोः ॥३२॥ दौर्गन्ध्यं गौरवं तन्द्रां कण्डूमलमरोचकम्।. स्वेदबीभत्सतां हन्ति शरीरपरिमार्जनम्॥३३॥ गङ्गाधरः---अभ्यङ्गप्रसङ्गात् परिशिष्टाभ्यङ्गखाच पादाभ्यङ्गं गुणत आहखरखमित्यादि। खरखादिकाः पादयोः सद्यः प्रशाम्यन्तीति बोधाथ पादद्वयादन्याङ्गव्यवच्छेदार्थञ्च प्रथमं पादयोरिति पदम् । एवं द्वितीयं पादयोरिति पदं कालान्तरेण पादयोः सौकुमा-दिशापनार्थ पादातिरिक्तशरीरसौकुमा-दिव्यवच्छेदार्थम् । दृष्टिः प्रसादं लभते इत्यत्र तन्त्रान्तरे हेतुरुच्यते-"चक्षुषि प्रतिबद्ध हे शिरे पादगते नृणाम् । अतश्चक्षुःप्रसादार्थी पादाभ्यङ्ग समाचरेत् ॥” इति। वातश्वोपशाम्यति पादयोरेव स्फुटनञ्च न स्यादिति । तृतीयं पादयोरिति पदमङ्गान्तरव्यवच्छे दार्थम्। चतुर्थन्तु पादयोरिति पदमङ्गान्तर शिरामायुसङ्कोचप्रतिषेधव्यवच्छेदार्थम् । पुनः पादाभ्यङ्गेनेतिपदं सततपादाभ्यङ्गबोधार्थ विरामव्यवच्छेदार्थश्च ॥३२॥
गङ्गाधरः-अभ्यङ्गानन्तरं गात्रोद्वत्तनविधानार्थमुद्वर्त्तनमभ्यगादनूपदर्शयतिदौगन्ध्यमित्यादि। दौगन्ध्यं गात्रस्य तथा गौरवञ्च गात्रस्य कप्ड्रमलेऽपि स्वेदबीभत्सताश्च स्वेदन बीभत्सतां कुत्सिततां शरीरपरिमार्जनमृद्वर्त्तनम् ॥३३॥ __ चक्रपाणिः-खरत्वमित्यादि पादाभ्यङ्गगुणः; प्रथमं पादयोरिति पदं खरत्वादिविशेषणार्य ; द्वितीयन्तु बलादेः कालान्तरोत्पादसूचनार्थं ; तृतीयन्तु स्फुटनविशेषणार्थ ; चतुर्थन्तु शिरास्नायुविशेषणार्थ ; शिष्टन्तु पादाभ्यङ्ग नेति पदं दूरान्तरितस्य पादाभ्यङ्गस्य स्मरणार्थम् ॥ ३२॥
चक्रपाणिः-अभ्यङ्गपूर्बकत्वाद्वर्त्तनस्य तमनु परिमार्जनमुर्त्तनं ब्रूते-दौर्गन्ध्यभित्यादि। स्वेदेन बीभत्सता स्वेदबीभत्सता । शरीरस्य बलेन सन्धानं योजनं करोतीत्यथः ॥ ३३॥३४ ॥ * स्तब्धतेति वा पाठः।
+ “न तस्य” इति क्वचित् पठ्यते ।
For Private and Personal Use Only