________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०६
(मात्राशितोय:
चरक-संहिता। तथा शरीरमभ्यगाद दृढ़ सुत्वक प्रजायते । प्रशान्तमारुताबाधं क्ल शव्यायामसंसहम् ॥ स्पर्शने चाधिको वायुः स्पर्शनञ्च त्वगाश्रितम् । त्वच्यश्च परमोऽभ्यङ्गस्तस्मात् तं शीलयेन्नरः॥ न चाभिघाताभिहतं गात्रमभ्यगासेविनः। विकारं भजतेऽत्यर्थ बलकमति वा क्वचित् ॥ सुस्पशोपचिताङ्गश्च बलवान् प्रियदर्शनः । भवत्यभ्यङ्गनित्यत्वान्नरोऽल्पजर एव च ॥३१॥
लिङ्गविपरिणामेन चयपि योजनीयम् ---तथा शरीरमभ्यगात् दृढ़ सुखकः मुष्ठुचर्म स्यात् । बहुदृष्टान्तोपदर्शनं शरीराभ्यङ्गस्यावश्यकत्वज्ञापनार्थ स्नेहस्य बहुकम्मेसाधनवज्ञापनाथेश्च । येन वहनां कम्मेणां सौष्ठवं दृश्यते तदवश्यं लोको निष वते इति। __प्रशान्तो मारुतस्य आ सम्यक् वायो यत्र तत्। क्ले शव्यायामौ सं सम्यक सहते यत्रत् । स्पर्शन इत्यादिना हेतूपदर्शनेन तैलाभ्यङ्गाभ्यासं विधातुमाह-- स्पशेने स्पर्शनेन्द्रिये च पुनर्वायुरथिक इन्द्रियाणां श्रोत्रादीनां पाश्चभौतिकलेऽपि खाद्यधिकलात स्पशनेन्द्रियस्य वाताधिकवेन वातस्थानखात् स्पर्शनश्च स्पर्शनेन्द्रिय पुनस्त्वगाश्रितं चम्बनिष्ठत्वच्यश्च खचो हितः परमः पुनरभ्यङ्गो यस्मात् तस्मात् तमभ्यङ्ग शीलयेत्। शील अभ्यासे चौरादिकः, एतेनाधारस्य बचो हितखेनाभ्यङ्गस्य खगाश्रितस्पर्शन न्द्रियाय हितवं स्पर्शनन्द्रियाश्रितवातायापि हितवमुक्तं भवति । पुनरस्याभ्यङ्गस्य कर्मान्तरमाह-न चेत्यादि। अभ्यङ्गसेविनः पुरुषस्य गात्रमभिघाताभिहतमपि न चात्यर्थ विकारं भजते शान्तवातत्वात्। बलकम्मेणि वा बलेन निष्पादनीयकर्मणि च नात्यर्थ विकार भजते अभ्यङ्गनित्यखात् सतताभ्यस्ताभ्यङ्गखात्। अङ्गसभि कृत उपचार इत्यभ्यङ्गः। अभि सर्वतोऽज्यते म्रक्ष्यते इत्यञ्जयातोर्वा रूपं भावकृता घत्रा ॥३॥ वायुरधिकः, वैद्यकदर्शने पाञ्चभौतिकत्वादिन्द्रियस्येत्यर्थः। त्वच्यश्च परमोऽभ्यङ्ग इति चकारात् वातहितश्च त्वच्यश्च, एतेनाश्रितवाताधिकस्पर्शनेन्द्रियस्य आश्रयस्य च त्वचो हित इत्युक्त भवति। बलेन सम्पाद्य कर्म बलकर्म गुरुभारहरणादि ॥ २८-३१ ॥
For Private and Personal Use Only