________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः] सूत्रस्थानम् ।
३०५ बलं शिरःकपालानां विशेषणाभिवर्द्धते। दृढमूलाश्च दीर्घाश्च कृष्णाः केशा भवन्ति च ॥ इन्द्रियाणि प्रसीदन्ति सुत्वम्भवति चामलम् । निद्रालाभः सुखश्च स्यान्मूद्धि तैलनिषेवणात् ॥ २६ ॥ न कर्णरोगा वातोत्था न मन्याहनुसंग्रहः । नोच्चैःश्र तिर्न बाधियं स्यान्नित्यं कर्णतर्पणात् ॥३०॥ स्नेहाभ्यगाद यथा कुम्भश्चम स्नेहविमर्दनात् । भवत्युपाङ्गादक्षश्च दृढ़ः क्ल शसहो यथा ॥
मृर्द्धनि तैलनिषेवणात् शिरःशूलं न जायते इत्यादि । बल शिरःकपालानां, शिरसस्त्रीणि कपालानि तेषां विशेषण बलं स्यात् दृढ़त्वात् । सुष्टुत्वक, अमलं मलस्याभावः स्यादिति भवेदित्यस्याः क्रियायाः अपादानं तैलनिषवणादिति, अस्य विशेषणं स्नेहादेशिरस इति, पुनश्च मुद्धनीतिपदं गात्रेऽभ्यङ्गलसेवनमात्रस्य वारणार्थं न ह्यत्र गात्रमात्राऽभ्यङ्गो विधीयते। कश्चित्तु स्नेहाशिरसः पुरुषस्येति पष्टयन्तं व्याख्याय मूर्द्धनि तैलनिपवणादित्युक्तऽपि पुनयत् स्नेहाद्रशिरस इत्युक्त तेनैवं शापितं यावता तैलेन शिरसः आद्रवं भवति तावन्मितं तैलस्य मृर्द्धनि निपव्यसमिति । तन्न, तेलादेशिरस इति करणे व तदथेलामे मुर्द्धनि तैलनिषेवणादित्यस्यातिरिक्तखापत्तेः ॥२९॥ ___ गङ्गाधरः-शिरःप्रत्यासत्त्या तैलप्रसङ्गाच कर्णस्य तैलतपणं गुणत आहन कणेरोगा इत्यादि। नित्यं सततं कणेतर्पणात् प्रकरणात् तैलेन कर्णस्य पूरणेन तर्पणात् तृप्तित इत्यर्थः ॥३०॥
गङ्गाधरः-पुरा शरीराभ्यङ्गस्य प्रसङ्गात् गुणतो विधिमाह-तत्र दृष्टान्तपूर्वकं कम्मोपदिशति स्त्र हाभ्यङ्गादित्यादि। कुम्भो घटः चर्म च यथा उपाङ्गात् स्न हदानात् अक्षो रथादेश्चक्रयोजनकाष्ठश्च यथा दृढ़ः क्लेशसहश्च, तावन्मूद्धि तैलं सेव्यमिति दर्शयति। स्नेहाभ्यङ्गादित्यादि उपाङ्गस्नेहदानम् , अक्षो रथस्य चक्रनिबन्धनकाष्ठम् । बहुदृटान्तकरणन्तु कस्यचित् किञ्चित् प्रसिद्ध भविष्यति ; न हि सर्च सर्वत्र प्रसिद्धमित्यभिप्रायेण ; यदि वा स्नेहस्य नानाकारयशक्त उपदर्शनार्थम्। स्पर्शनेन्द्रिये
For Private and Personal Use Only