________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(मात्राशितोयः
चरक-संहिता। ककोलकफलं पत्र ताम्बूलस्य शुभं तथा। तथा कर्पूरनिर्यासः सूक्ष्मैलायाः फलानि च ॥ २७॥ हन्वोर्बलं स्वरबलं वदनोपचयः परः । स्यात् परञ्च रसज्ञानमन्ने च रुचिरुत्तमा ॥ न चास्य कण्ठशोषः स्यान्नोष्ठयोः स्फुटनादभयम्। न च दन्ताः क्षयं यान्ति दृढमूला भवन्ति च ॥ न शूल्यन्ते न चाम्लेन हृष्यन्ते भक्षयन्ति च । परानपि खरान् भक्ष्यान् तैलगण्डूषधारणात् ॥ २८ ॥ नित्यं स्नेहा शिरसः शिरःशूलं न जायते । न खालित्यं न पालित्यं न केशाः प्रपतन्ति च ॥
लवङ्गस्य फलं नान्यत फलमस्तीति बोध्यम्, पत्रं ताम्बूलस्य पर्णाख्यस्य तस्य विशेषणं शुभमिति। कपूरनियासः कर्पूरात्मको निर्यासः इति । अत्रान्यत्रोक्तप्रतिषेधो बोध्यस्तद्यथा-"ताम्बल क्षतपित्तामुकक्षोत्कुपितचक्षुषाम् । विषमूर्छामदातनामपथ्यं शोषिणामपि। शस्तं मुप्तोत्थिते भुक्त त्याज्यं दन्तास्यरोगिणा ॥” इति ॥२७॥
गङ्गाधरः-मुखकाय्यवसामान्यात् स्नेहगण्डूणं गुणत आह–हन्वोरित्यादि । स्ने हगण्डूषधारणात् हन्वोबलमित्यादि स्यात् । न चास्य कण्ठशोष इत्यादि स्यात् । न च दन्ताः क्षयं यान्ति चापि तु दृढमूला भवन्ति च पुनर्न शूल्यन्ते शूल रुजायामिति भौवादिकोऽकम्मको यः शूलधातुस्तस्य नबा द्योत्यते रुजामात्रोऽर्थः, दोषणेति शेषः, कर्मणि तिङ् । न चाम्लेन हृष्यन्ते इत्यत्रापि कर्मणि तिङ्। परानुत्कृष्टानपि खरान् कठिनान् भक्ष्यान् भक्षयन्ति चयन्ति । दोषापेक्षया तैलायन्यतमो बोध्यः ॥२८॥ __ गङ्गाधरः-तैलप्रसङ्गात् शिरोऽभ्यङ्गार्थ स्नेहं गुणत आह-नित्यमित्यादितैलनिषेवणादित्यन्तेन । नित्यं सततं, स्त्र हाद्र शिरो यस्य तस्य तथाविधात् ।
चक्रपाणिः--हन्वीरित्यादि स्नेहगण्डूषगुणः । नित्यमित्यादि निषेवणादित्यन्तं शिरस्तैलगुणः । मूछि, तैलनिषेवणादित्युक्त ऽपि स्नेहाईशिरस इति यत् करोति, तेन, यावता तैलेनाईशिरः स्यात्
For Private and Personal Use Only