________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः ]
सूत्रस्थानम् । चक्षुस्तेजोमयं तस्य विशेषात् श्लेष्मतो भयम् । दिवा तन्न प्रयोक्तव्यं नेत्रयोस्तीच्णमञ्जनम् ॥ विरेकदुब्बला दृष्टिरादित्यं प्राप्य सीदति । तस्मात् स्राव्यं निशायान्तु ध्रुवमञ्जनमिष्यते ॥ ततः श्लेष्महरं कर्म्म हितं दृष्टेः प्रसादनम् ॥ ८॥
२८५
गङ्गाधरः- तत्र दिनप्रयोगे दोषं दर्शयति - चक्षुरित्यादि । चक्षुरिन्द्रियं तजोमयं तेजोविकारभूतं तस्य चक्षुरिन्द्रियस्य तेजोमयस्य शारीरस्य शारीरदोषवातपित्तकफेभ्यो भयं भवति, तत्रापि विशेषेण वातपित्रापेक्षया चक्षुषस्तैजसस्य विरोधिगुणादाप्यत्वेन श्लेष्मतो भयमपि विशेषेणाधिकत्वन भवति । तस्य च श्लेष्मणो जयार्थं संशोधनं प्रधानं, तदिह स्रावणार्थे रसाञ्जनं तीक्ष्णमञ्जन दिवा दिनकरकिरणाधिकरणे काले नेत्रयोन प्रयोक्तव्यम् ।
ननु दिन तैजसं चक्षुश्च तैजसं तयोः सामान्याद्रसाञ्जनस्य च तीक्ष्णत्वेन तयोः सामान्यात् श्लेष्मतो विपर्य्ययत्वेन विशेषान् श्लेष्मजये दिन एव रसाञ्जनस्य तीक्ष्णस्याञ्जनप्रयोगः प्रशस्यते; कथं निषिध्यते इत्यत आहविरेकदुर्बलेत्यादि । दिनरसाञ्जननेत्राणां सामान्येऽपि श्लेष्मतो विशेषेण विरोधित्वेऽपि दिने नेत्रयोस्तीक्ष्णाञ्जनप्रयोगेण दोषविरेचनात दुब्बला भवति दृष्टिरिन्द्रियं तदाऽपरतीक्ष्णमादित्यं न सहते यदि च प्राप्नोति सूर्य्यकिरणसंयोगेन युक्ता स्यात् तदा तदिन्द्रियार्थतीक्ष्णातियोगात् सीदति । तस्मात् विरेकदुर्बलदृष्ट्यादित्य करप्राप्तावसाददोषात् स्राव्यं विरेचनयोग्यं श्लेष्मतो भयमाशङ्का तैजसं चक्षुर्निशायां ध्रुवमवश्यं स्राव्यं स्रावयेत् । तु पुनरञ्जनं स्रावणाञ्जनं निशायामिष्यते इति कश्चित् । वस्तुतस्तस्मादुक्तदोषात् स्राव्यं स्रावाय
For Private and Personal Use Only
चक्रपाणिः – स्रावणान्जनप्रकरणोपपत्तिमाह-चक्षुरित्यादि । चक्षुरिन्द्रियस्य तेजसस्य श्लेष्मत आप्यात् तैजसविरुद्वत्वेन हेतुना, विशेषादिति वातपित्तभयादधिकत्वेन भयं भवति ; श्लेष्मजये च त्रावणं प्रधानं तस्मात् स्त्राव्यमित्यर्थः । त्रावणान्जनकालं नियमयति-निशायामित्यादि । ध्रुवमवश्यं निशायामेव, अञ्जनं प्रत्यासन्नत्वात् स्त्रावणाञ्जनम् । जतूकर्णेनाप स्त्रावणरसाज्जनं निशायामेव विहितं यदुक्तं "सप्ताहाद्रसाव्जनं नक्तम्” इति शालाक्येऽप्युक्त "विरेकदुर्बला दृष्टिरादित्यं प्राप्य सीदति । रात्रौ सुप्तगुणाच्चाक्षि पुष्यत्यजनकर्षितम् ॥” सौवीरान्णनञ्च विरेचनं न भवति, चक्षुःप्रसादमात्रं करोति तेनैतद्दिवा क्रियमाणं न विरोधि ।
;