________________
Shri Mahavir Jain Aradhana Kendra
२८४
www.kobatirth.org
चरक संहिता |
-
Acharya Shri Kailassagarsuri Gyanmandir
[ मात्राशितीयः
तऊर्द्ध शरीरस्य काय्र्यमभ्यञ्जनादिकम् । स्वस्थवृत्तमभिप्रेत्य गुणतः संप्रवक्ष्यते ॥ सौवीरमञ्जनं नित्यं हितमक्ष्णोः प्रयोजयेत् । पञ्चरात्रे ऽष्टरात्रे वा स्रावणार्थे रसाञ्जनम् ॥ ७॥
/
गङ्गाधरः-- अथ स्वास्थ्यपालनार्थमाहारविधिमुपदिश्य शारीरकार्य्यमुपदिशति - अत ऊर्द्धमित्यादि । अतो मात्राशनविध्युपदेशात् ऊर्द्ध मनन्तर शरीरस्य चक्षुरादेः सम्बन्धे यदवश्यं कार्य्यमञ्जनादिकमपि तत् स्वास्थ्यवृत्त नातिस्फुटधातुवैषम्येऽपि नातिवाधाभाववृत्तं न तु व्याधितवृत्तमभिप्र ेत्य गुणतः कम्मेणा प्रवक्ष्यते तेनास्मिन् यदञ्जनादिकं व्याधिविशेषहरत्वेनापि प्रशसितव्यं तन्न विरुध्यते व्याधितवृत्ततयाऽभिप्र ेतत्वाभावादिति, गुणतः कर्म्मतः संप्रवक्ष्यमाणखेन प्रतिज्ञातत्वाच्च । अत्र चक्षुषोऽङ्गषु सर्व्वेषु प्राधान्यात् तत्काय्र्यमञ्जनं प्रथममुपदिश्यत इति सौवीरमित्यादि । सुवीरा नदी तस्यां जातमञ्जन नित्यं प्रत्यहमक्ष्णोरक्षिगोलकयोः प्रयोजयेत् । कस्मादित्याह - हितमर्थादेवाक्ष्णोः, हितमिति वचनेन चक्षुस्तेजोरक्षणं न तु चक्षुर्गतदोष निर्हरणमिति बोध्यम् । चक्षुर्दोषनिर्हरणार्थमाह-पञ्चेत्यादि । अक्ष्णोः स्रावणार्थे पञ्चरात्रे ऽष्टरात्रे वा रसाञ्जनं प्रयोजयेत् । पञ्चाष्टविकल्पस्तु चक्षुर्दोषवलावलापेक्षया स्रावणार्थे रसाञ्जनाञ्जनप्रयोगे पञ्चाष्टान्यतररात्रादृद्ध मधव कालनियम दर्शनार्थम् । पञ्चदिनेऽष्टदिने वेति न कृत्वा रात्रान्तत्वेन निर्देशात् स्रावणार्याञ्जनस्य रात्रावेव प्रयोग इति ज्ञापितम् ॥ ७ ॥
।
For Private and Personal Use Only
चक्रपाणिः - अत ऊ मित्यादि । अतः स्वास्थ्यानुवृत्तिकारणकथनाद् ऊर्जा, कार्य्यमवश्यं कार्य स्वस्थवृत्तिमभिप्रत्य, स्वस्थवृत्तानुष्ठानेऽक्ष्यञ्जनाद्यवश्यं कार्य्यमित्यर्थः ; अञ्जनशब्दोऽभ्यञ्जनेऽपि वर्त्तते, तदर्थमभ्यञ्जनामत्युक्तम् । अञ्जनमेवादावुपहितं प्रधानावयवचक्षुः परिपालकत्वात् : उक्तञ्च - "चक्षुः प्रधानं सर्वेषामिन्द्रियाणां विदुर्बुधाः । घननीहारयुक्तानां ज्योतिषामिव भास्करः ॥" यदि वा स्वस्थवृत्तमधिकृत्य यदञ्जनादि, तदुच्यते ; रोगेषु तु यदञ्जनादि, तत् तचिकित्सासु वक्तव्यं यद्यपि चैतदन्जनादि रोगहरमपि वक्तव्यं, तथापि प्रायः स्वस्थवृत्तमतमेतदिति स्वस्थवृत्तमभिप्र त्येत्युक्तम् । सौवीरेत्यादि । - सुवोरानदीभवं सौवीरं नित्यं प्रत्यहम्, अक्ष्णोरिति द्विवचनमक्षिगोलकद्वयेऽप्यन्जनविधानार्थम् । पञ्चरात्राट रात्रग्रहणं दूरान्तरकाले नियमदर्शनार्थं, तेन दोषकालमपेक्ष्यार्वाक् मध्ये ऊद्धञ्च कर्त्तव्यं स्रावणमन्जन मिति भवति ॥ ७ ॥