________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः
सूत्रस्थानम् ।
२८३ तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तते ।
अजातानां विकाराणामनुत्पत्तिकरञ्च यत् ॥ ६॥ मात्राशनस्य स्वास्थ्यहेतुत्वेन वह्निसाम्यरक्षणादिकरत्वेन स्वास्थ्यपालनोपायोपदेश आरब्धः, स चातिबाहुल्यो वाच्यश्चेत् तदातिगौरव ग्रन्थोऽयमावहतीति अनुक्तं स्वास्थ्यरक्षणार्थमुपायं मूत्रयितुमाह-तच्चेत्यादि । स्वास्थ्यमिति खः स्वीयोऽविकृतो धर्मस्तस्मिं स्तिष्ठतीति स्वस्थस्तस्य भावः स्वास्थ्यं स्वाभाविकखादिकं धातुसाम्यमिति यावत् । येनाहारेण विशुद्धन क्षीयमाणशरीरपोषणकरेण च स्वास्थ्यमनुवर्तते तच्च सर्वमुपयुञ्जयात् । यथा प्रदीपस्नेहवर्तिक्षयोन्मुखे प्रदीपक्षयभिया स्नेहवर्तिदानात् प्रदीपोऽनुवर्त्तते, एवं वातादिप्रत्यवायहेतुपरिहारेण स्वास्थ्यमनुवत्तेते। तथा अजातानां विकाराणामुत्पत्तिकराः प्रशापराधपरिणामासात्मेन्द्रियार्थसंयोगास्तेभ्योऽन्यद यच्च तच्च सर्व प्रयुञ्जीत, प्रशापराधादिभिरभ्यवहारपरिहारं कुय्यात् तेन स्वास्थ्यमनुवर्तते इति । अत एव कालखभावजदोषसञ्चयादिनिर्हरणादिकं वक्ष्यति, नैतेन संगृहीतमिति ॥६॥ द्रव्याणि नात्युपयुञ्जीत पिप्पल्यो लवणं क्षारः” इति यद्वक्ष्यति, तेन समं विरोधो न भवति तत्र लवणातियोगस्य प्रतिषिद्धत्वात्।।
मात्राशीत्यादिना स्वास्थ्यपरिपालनोपाय उच्यते। अतिबहु च स्वस्थपरिपालनं तन्त्र वक्तव्यं, तच्चेहाभिधीयमानं ग्रन्थगौरवमावहति, अनभिधीयमानञ्च ग्रन्थस्य न्यूनतामापादयति ; अतस्तत् सूत्रमात्रेणोद्देष्टुमाह-तच्चेत्यादि। सुष्ठ निर्विकारत्वेनावतिष्ठत इति स्वस्थः तस्य भावः स्वास्थ्यमुद्वजकधातुवैषम्यविरहितधातुसाम्यमित्यर्थः, तच्च स्वास्थ्यमुभयथा परिपाल्यते-विशुद्धाहाराचाराभ्यां सदा श्रीयमाणशरीरपोषणेन प्रत्यवायहेतुपरिहारेण च, यथा दीपपरिपालनं स्नेहवर्तिदानात् पोषणेन क्रियते तथा शलभवातादिनिर्वापकहेतुपरिहारेण च । शरीरप्रत्यवायहेतुश्च द्विविधः-बुद्धिदोषाद्विषमशरीरन्यासादिर्वातादिकारका, दुष्परिहरश्च कालविशेषः स्वभावादिह हेमन्तादिः कफचयादिकारकः ; तत् श्लोकपूर्वार्द्धन स्वास्थ्यपोषकहेतुमाह, उत्तरार्द्धन तु जातानामित्यादिना स्वास्थ्यविघातकहेतुपरिहारमाह। यद्यपि चाजाताना विकाराणामनुत्पत्तिः स्वभावसिद्धा विद्यत एव, विद्यमानायाञ्च करोत्यर्थो मुख्यो नास्ति, तथापीदमेवाजातविकाराणामनुत्पत्तिकरणं यत् तद्विकारहेतुपरिहरणं तथा दुष्परिहरकालविशेषजनितदोपहरणम् । यथा वक्ष्यति, "माधवप्रथमे मासि नभस्यप्रथमे पुनः। सहस्यप्रथमे चैव वाहयेद दोषसञ्चयम् ॥” तथा हेत्वन्तरनिरपेक्षात् पच्यमानचक्षुःश्लेष्महरणार्थमञ्जनम् । एवमादि ॥ ६ ॥
For Private and Personal Use Only