________________
Shri Mahavir Jain Aradhana Kendra
२८२
www.kobatirth.org
चरक संहिता |
[ मात्राशितीयः
कूर्चिकांच किलाटांश्च शौकरं गव्यमामिषम् । मत्स्यान् दधि च माषांश्च यवकांश्च न शीलयेत् ॥ ५ ॥ षष्टिकान् शालिमुद्रांश्च सैन्धवामलके यवान् । आन्तरीक्षं पयः सर्पिर्जाङ्गलं मधु चाभ्यसेत् ॥
Acharya Shri Kailassagarsuri Gyanmandir
1
कुमुदादीनां कन्दाः विसानि मृत्तिकाधः स्थितक्षुद्रावरोहवन्मृणालानि गुरुत्वात् नाभ्यसेत् । मांसं कृशं व्याध्यादिभिरपुष्टानां मृगादीनां कृशानां मांसं कृशं मांसं कृशसम्बन्धित्वमेवानुपयोगे मांसस्य हेतुरुन्नेयः । कूर्चिकादींश्च न शीलयेत् न सततमुपयुञ्जीत । गौरवादेवेत्यर्थः । कूर्चिकान् इति तत्रसहितं पक्वं क्षीरं कूच्चिकः; तस्य पिण्डाकारः । किलाट आवृत्तक्षीरस्य घनो भागः क्षीरश इत्याख्यः । शौकरमामिषं शुकरमासं तत्साहचर्य्यात गव्यमपि आमिषमित्यन्वयः । आमिषशब्दो मांसे वर्तते । यवकः शुकधान्यविशेषोऽतिशयमपथ्यतमत्वेन स्वयं वाच्यः न तु यवः ॥ ५॥
**
गङ्गाधरः– सतताभ्यास्यानाह - षष्टिकानित्यादि । इहादौ षष्टिकः पठ्यते रक्तशालिमपेक्ष्याप्राधान्येनान्यापेक्षया प्राधान्यखापनार्थम् । सैन्धवस्य सततमभ्यासवचनमेतत् भोज्यव्यञ्जनादिसंस्कारकतया बोध्यमन्यथा त्रीणि द्रव्याणि नोपयुञ्जीत "पिप्पल्यो लवणं क्षारः" वक्ष्यमाणविशेषविरोधः स्यात् । यवानिति यवः प्रसिद्धः न तु यवकः । आन्तरीक्षं जलमिति शेषः । पयः क्षीरं, सर्पिर्धृतं, जाङ्गल' जङ्गलदेशभवा मृगादयो जाङ्गलास्तेषां मांसं जाङ्गलम् । मधु माक्षिकम् । अभ्यसेत् । असु व दीप्तिग्रहणगतिष्विति धातो रूपम् ।
मांसं कृशमपुष्ट रोगादुपरतमृगादिसम्भवमित्यर्थः, एतच्चाप्यवृष्यत्वादेव निषिद्धं, न गौरवादिति ब्रुवते । कूर्चिकः क्षीरेण समं दधि तक वा पक्ककिलाटः, कूर्चिकपिण्डो नष्टक्षीरस्य घनो इत्यन्ये । शौकरमिति शूकरमांसं, शूकरसाहचर्य्यात् गव्यमहिषे अपि मांसे एव बोद्धव्ये, यवकः शुकधान्यविशेषः, वक्ष्यति “यवकः शूकधान्यानाम् अपथ्यतमत्वेनाप्रकृष्टतमो भवति" इति ॥ ५ ॥
भाग
चक्रपाणिः– अभ्यस्यान् दर्शयति षष्टिकानित्यादि । - इह षष्टिरादौ पठ्यते रक्तशालिकमनु प्रधानत्वख्यापनार्थम् । आन्तरीक्षमिति आन्तरीक्षं पानीयं पयः क्षीरं । जाङ्गलमिति जाङ्गलदेशभवं मृगादिमांसम् । इह सैन्धवाभ्यासोऽन्नसंस्कारत्वेन मात्रयाऽभिप्र ेतः, तेन "श्रीणि
1
गव्यमाहिषे इति क्वचित् पाठः ।
For Private and Personal Use Only