________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः
सूत्रस्थानम् ।
२८१ भवन्ति चात्र। गुरु पिष्टमयं तस्मात् तण्डुलान् पृथुकानपि । न जातु भुक्तवान् खादेन्मात्रां खादेबुभुक्षितः॥ वल्लूरं शुष्कशाकानि शालूकानि विसानि च । नाभ्यसेदगौरवान्मांसं कृशं नैवोपयोजयेत् ॥ गङ्गाधरः-आचार्याणामयमाशयः-पूर्वव्याख्यातार्थोपसंहरणार्थ “तत्र श्लोकः” इति करोति, प्रमाणार्थमधिकार्थश्च “भवति चात्र” इति करोति, इति व्याखाातातिरिक्त वक्तमाह-भवन्ति चात्रेति। अत्राधिकार्थाः श्लोका भवन्ति सन्ति। के ते इत्याह-गुरु पिष्टेत्यादि । पिष्टमयं पिष्टविकारः, गुरु गौरवशालि, जातु कदाचित्, न खादेत् भुक्तवान् मात्रां खादेत् बुभुक्षितोऽतिमात्रया न खादेदित्यर्थः। तस्मात् गुरुवात तण्डुलान् जातु कदाचिदपि न खादेत ; भुक्तवान मात्रामपि न खादेत बुभुक्षितोऽतिमात्रां न खादेदित्यर्थः । पृथुकानपि चिपीट इति लोके प्रसिद्धान्, तस्मादपि गुरुवात् न जातु खादेत् कदापि न खादेत ; भुक्तवान मात्रया न खादेत, बुभुक्षिताऽतिमात्रया न खादेदित्यर्थः। नन्वेवञ्चेत् तदा कदापि कोऽपि किं पिष्टमयादिकंन खादंदित्याशयाह-बुभुक्षित इति । बुभुक्षितः पुरुषः मात्रामनपायिपरिमाणसंख्यां कुक्षेरप्रपीड़नादिलक्ष्यां खादेत् पिष्टमयादीनां गुरुद्रव्याणां वोध्यम् । __ न केवल पिष्टमयादिकं न जातु खादैत्, वल्ल रादिकं नाभ्यसेत्, तदाह-वल्लूरमित्यादि। वल्लूरं शुष्कमांसं नाभ्यसेत् निरन्तरं नोप; युञ्जनात् ; कस्मादित्याह-गौरवादिति । शुष्कशाकान्यपि गुरुखात्, शालूकानि अपि रोगप्रकृतयः” इति। तेन मातापरिगृहीताः शुभा अपि प्रकृत्यादयः प्रायोबलादिहेतवो भवन्तीति मात्रावदाहारस्तुत्यर्थम् ‘अवश्यम्” इति कृतम्। सुखयुक्तमायुः सुखायुः, यदि वा सुखञ्चायुश्चेति मन्तव्यं, स्वरूपेणापि चायु ग्यमिति प्राक् प्रतिपादितमेव ॥ ३॥४॥
भवति चात्रेति। तन्त्रकारस्य समयोऽयं, यत्-पूर्वव्याख्यातार्थसंग्रहार्थं यदा श्लोकेन वक्त मारभते तदा 'भवति चात्र" इति करोति। पिटमयं पिरविकारः, तस्मादिति गुरुत्वात्, पृथुकाश्चिपिटा इति लोकप्रसिद्धाः। न जातु कदाचित्, मात्रां खादेदित्यनपायिपरिमाणवन्तं खादेत् । वल्लूरं शुष्कमांसं, नाभ्यसेत् न निरन्तरमुपयुञ्जगत् । अनभ्यासहेतुमाह-गौरवादिति ।
For Private and Personal Use Only