SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८० चरक-संहिता। मात्राशोतीयः मात्रावद्धयशनमशितमनुपहत्य प्रकृति बलवर्णसुखायुषा योजयत्युपयोक्तारमवश्यमिति ॥ ४॥ चार्थे च पुनर्लघूनाश्च द्रव्याणां मात्रापेक्षयैव नातिसौहित्यमुपदिश्यते इत्यनेनान्वयः। यावत्परिमाणेनाभ्यवहारे कुक्षेरप्रपीड़नादिकं स्यात् तावत्परिमाणातिशयेन सौहित्यं नोपदिश्यते अग्नेयुक्त्यर्थ, लघूनामग्निसन्धुक्षणस्वभाववेऽपि मात्रातिशयेनाभ्यवहाराद्वायोरसञ्चारादग्नेः सन्धक्षणाभावेन सामान्यस्याप्यभावापत्तेः, यथा प्रज्वलितोऽप्यग्निस्तृणराशिप्लावितो नश्यति, यथा चक्षुस्तैजसं तेजोऽतियोगादितो विपदाते, यथापि च प्रस्तरशिलायोगात् शस्त्र तीक्ष्णं भवति तदतियोगाद व्यापदाते इति । तस्मान्मात्रामेवापेक्षन्ते द्रव्याणि न तु द्रव्याणापेक्षते मात्रा। ननु समाग्निरक्षणाथ मात्राशन किं प्रयोजनमित्याह-मात्राव दित्यादि । हि यस्मात मात्रावदशनमशितं सत् प्रकृति स्वास्थ्यमनुपहत्य बलादिभिर्योजयत्युपयोक्तारमवश्यमिति बलवणोदीनां प्रकृत्यादिकारणसमूहेष्वेकमेवैतत् मात्रावदशनं कारणं भवति प्रधानमित्यवश्यंपदेन ज्ञापितम् । तैः कारणान्तरैः सहकारेणायं नियम इति। तस्मान्मात्राशी स्यादिति निगमन बोध्यम् ॥४॥ नातिसौहित्यमित्यत्र सौहित्यशब्दस्तृप्तिमात्र वत्तते, तेन लघूनि तृप्तपतिक्रमेण न भोक्तव्यानि, एवं हि तेषां मात्रातिक्रमो न स्यात् । अग्नेयुक्तिः स्वमानावस्थितिः, तदर्थम्। ननु गुरूणां तावदतिमात्रोपयोगोऽग्निपरिपालनार्थं निषिध्यता, येन गुरूण्यग्नवसमानानि ; लानि पुनरग्निना समानानि तत् तेषां कथमतिमात्रोपयोगो वह्निमान्द्यमावहतीति ? ब्रमः-लघूनां द्रव्याणां सामान्यमभिभूयातिमात्रत्वमेवाग्निमान्द्यं करोति । यथा-चक्षुस्तैजसं तेजःसहकृतञ्च पश्यति, तदेव तेजोऽतियोगादुपहन्यते, तथा शस्त्रमश्मसम्भवम्, अश्मयोगाञ्च तीक्ष्णं सम्पद्यते, अश्मन्येव च मिथ्यायोगात् प्रतिहतं स्यात्, तदुक्त शालाक्ये “यत् तेजो ज्योतिषां दीप्तं शारीरं प्राणिनाञ्च यत्। संयुक्त तेजसा तेजः तद्विरूपाणि पश्यति ॥ तदेव चक्षुम्तान्येव ज्योतीष्यति तु पश्यतः । विकारं भजतेऽत्यर्थमथवापि विनश्यति ॥ शस्त्रस्याश्मा यथा योनिर्निशितञ्च तदश्मनि । तीक्ष्णं भवत्यतियोगात् तत्रैव प्रतिहन्यते ॥' एवं तावद व्युत्पादिताऽग्निबलद्रव्यापेक्षिणी मात्रा, मालाऽन्वितञ्च भोज्यं भोक्तव्यमित्युक्तम् । __ मात्राशितत्वे को गुण इत्याह - मात्रावद्धीत्यादि।-इहावश्यमिति नियमो विरोधिकारणान्तराभावे सति बोद्धव्यः ; यतः-यद्यपि पूर्ववदशनाशितोपयोक्त पदैः प्रशस्तभोजनादिवाचिभिः प्रकृतिकरणादिगुणसम्पन्नमन्नं लभ्यते, तथापि कालविपर्ययप्रज्ञापराधासात्म्यशब्दरूपरसस्पर्शगन्धाः सन्त्येवाहारजन्यबलादिविरोधकाः । यदाह 'सन्ति गाहारादन्या For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy