________________
Shri Mahavir Jain Aradhana Kendra
५म अध्यायः
www.kobatirth.org
सूत्रस्थानम् ।
बलापेचिणी मात्रा । न च नापेक्षते द्रव्यम् । द्रव्याणामपेक्षया* च त्रिभाग सौहित्यमर्द्धसौहित्यं वा गुरूणामुपदिश्यते । लघूनामपि च नातिसौहित्यमग्नेर्युक्तार्थम् ।
Acharya Shri Kailassagarsuri Gyanmandir
*
हेमन्तादिकालाहिताग्निवलस्य मात्राद्रव्यगुरुक्षमत्वेऽपि न प्राधान्यं कालान्तरे समागते प्रतिघात्यखात् । व्यायामं निवेवमाणस्य पुरुषस्य चिरमेवाशिवलसत्त्वाच्च । व्यायामादग्निबलाच्चान्यत्रेति यद् व्याख्यानयन्ति तन्न द्विवचनापत्तेर्व्यायामापेक्षिलवापत्तेश्च मात्राया इति तेन प्रतिज्ञाहानिश्च स्यादिति ॥ ३ ॥
गङ्गाधरः - अथ प्रतिपक्षस्य प्रतिष्ठापनां निरस्य निगमनार्थमाह- सैपेत्यादि । साऽग्निवलापेक्षिणीति प्रतिज्ञाता मात्रा, एषा प्रतिपक्षप्रतिष्ठापनया न निराकृता हेतुयुक्तिभ्याञ्चास्माभिः स्थापिता भवत्यशिवलापेक्षिण्येव मात्रा न तु गुरुलाघवापेक्षिणीत्यथः ।
ननु भवत्वग्निवलापेक्षिणी मात्रा द्रव्यापेक्षिणी भवति । अभियुक्त्यर्थं हि गुरुद्रव्याणामर्द्धसोहित्यं लबूनामपि नातिसौहित्यमुपदिश्यते इति प्रतिपक्षान्यतरप्रतिष्ठापनानिरासायाह न चेत्यादि । न चेति चकारेण मात्रा उपस्थाप्यते प्रकरणात् । मात्रा न द्रव्यमपेक्षते इति न चाद्रव्यमेव ह्यपेक्षते । कस्मान्मात्रा न द्रव्यमपेक्षते इत्यत आह- द्रव्याणामित्यादि । चकारोऽवधारणे । मात्रापेक्षयैव द्रव्याणां गुरुणा प्रकृष्टगौरवाणां द्रव्याणां त्रिभागसौहित्यं गुरूणां द्रव्याणां यावत्परिमाणेनाभ्यवहारे कुक्षेरप्रपीड़नादिकं स्यात् तावत्परिमाणेनाभ्यवहारः साहित्यं तदपि त्रिभागेण । न खलु परिमाणेन उपदिश्यते प्रष्टृगौरवाणामर्द्धन न खलु परिमाणेन उपदिश्यते अग्नेयत्त्यर्थं समानस्थित्यर्थम् । लघूनामपि च चकारः पुनरर्थेऽपि द्वन्यक्षमो भवति, यदुक्त " पक्का भवति हेमन्ते मात्रात्रव्यगुरुक्षमः" इति, तथापि व्यायामाहितबलो वह्निर्नितरां बलवान् भवतीत्ययमेव प्रधानपरिग्रहादुक्तः । ये तु व्यायामादिति चाग्निबलादिति हेतुद्वयं वर्णयन्ति तेषामेवं सति व्यायामापेक्षिण्यशनमात्रा स्यादिति प्रकरणविरुद्धोऽर्थः स्यात् । प्रतिज्ञातमर्थं न्यायसम्पादितमुपसंहरति- लैपेत्यादि । सेत्यग्निबलापेक्षिणी प्रतिज्ञाता मात्रा, एषेति न्यायेनाग्नरपेक्षत्वेन निर्व्वाहिता ।
२७६
ननु यद्यप्यग्निबलापेक्षिणी मात्रा, तत् कस्मादेकरूप एवाग्नौ लघूनां द्रव्याणां भूयसी मात्रा स्यात् ; ततस्त्रिभागोचिता अर्द्धा वेत्याह-- न चेत्यादि । द्रव्यमपेक्षत इत्यर्थः । त्रिभागसौहित्यं सनाग् गुरुभिः । एवं गुरु गौरवप्रकर्षापकर्षादन्यदपि कल्पनीयम् । लघूनामपि द्रव्यापेक्षयेति वा पाठः ।
For Private and Personal Use Only