________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
चरक-संहिता। [ मात्राशितीयः नीतराणि । तस्मात् स्वगुणादपि लघून्यग्निसन्धुक्षणस्वभावान्यल्पदोषाणि चोच्यन्ते अपि सौहित्योपयुक्तानि । गुरूणि पुनर्नाग्निसन्धुक्षणस्वभावान्यसामान्यादतश्चातिमात्र दोषयन्ति सौहित्योपयुक्तानि अन्यत्र व्यायामाग्निबलात् । सैषा भवत्यग्निगुरूणि पृथिवीसोमगुणवहुलानि भवन्ति इति सर्वमतसिद्धः सिद्धान्तः। तस्मात् लघूनां द्रव्याणां वाय्वनिगुणवहुलखात् गुरूणां द्रव्याणां पृथ्वीसोमगुणवहुलखात्। स्वगुणात् रक्ष्यलाघवसाक्ष्भ्यचलखवैशदाखरखात् अपिशब्दान्मात्रयाऽभ्यवहतानि लघूनि द्रव्याणि अग्निसन्धक्षणस्वभावानि अग्न रुक्षस्य च खरस्य च सूक्ष्मस्य च लघोश्च चलस्य च विशदस्य च सामान्यात् । सन्धक्ष्यतेऽनेनेति सन्धुक्षणः उद्दीपनकरणः स्वभावो रौक्ष्यादिगुणो यो येषां तानि तथा। वहिसन्युक्षणस्वभावत्वात् तु सुतरामपि साहित्योपयुक्तानि आ तृप्तित उपयागे भात्राव्यतिक्रमेऽप्यल्पदोपाणि चोच्यन्ते न खतिदोषवन्ति । एवार्थे चकारः। अग्निसन्धूक्षण हि तत्रापि भवत्येवेति भावः।। __गुरूणि पुनरिति ।-पुनःशब्दो भिन्नक्रमे, तेन तस्मात् पृथ्वीसोमगुणवहुलखात् । स्वगुणादपि स्निग्यसाच्च गुरुत्वाच्च स्थूलखाच स्थिरखाच विशदपैच्छिल्याच्च मात्राशनाचापि वह्न रोक्ष्यादिगुणस्यासामान्यात न सन्धुक्षणः स्वभावो येषां तानि तथा। असामान्यादिति विरोधार्थे नञ्। अतः सामान्यविरहेणापि सन्धुक्षणस्वभाववाभावाच मात्राशनानि दोषवन्ति सोहित्योपयुक्तानि चा तृप्तितो भोजनेन मात्राव्यतिक्रमादग्निसन्धुक्षणस्वभावाभावाचातिमात्र दोषवन्तिभवन्ति । ननु मल्लादिपुरुषाणां साहित्योपयुक्तगुरुद्रव्याभ्यवहारेऽपि न दोषा दृश्यन्ते कथम् ? उच्यते, अतिमात्र दोषवन्तीत्यत आह–अन्यत्रेत्यादि। व्यायामादग्निवलमिति व्यायामानिवलम्। व्यायामजनिताग्निबलस्याप्रतिघात्यत्वेन मात्राव्यतिक्रमे समानेऽपि लघुगुरुद्रव्ययोलघुगुरुद्रव्यस्य विशेषं दर्शयति–अल्पदोपाणि चोच्यन्तेऽपि सौहित्योपयुक्तानि, सौहित्यं मावाव्यतिक्रमेण तृप्तिः। गुरूणीत्यादी पुनःशब्दो व्यावृत्यर्थः । असामान्यादिति विरोधार्थे नज, तेनासामान्यादित्यग्निविरुद्ध पृथ्वीतोयगुणबाहुल्यादित्यर्थः । अन्यसामान्यादिति पाटपक्षेऽप्यन्यशब्दो विरुद्धवचन एव, तेन तथापि स एवार्थः। अतश्च त्यादिना मात्राव्यतिक्रमे गुरौ गरीयांसं दोषं दर्शयति। ननु दृश्यन्ते केचन भारिकादयः पुरुषाः साहित्योपयुक्तगुरुद्रव्याहारेऽपि निषाः, तत् किमुच्यतेऽतिमात्र दोषवन्तीत्याशङ्कयाह-अन्यत्र त्यादि। व्यायामकृतमग्निबलं व्यायामाग्निबलम् ; यद्यपि कालाहितबलोऽग्निर्माखाऽधिकगुरु
For Private and Personal Use Only