________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः ]
सूत्रस्थानम् ।
तथा पिष्टेचुक्षीरविकृतिमाषानृपौदक पिशितादीन्याहारद्रव्याणि प्रकृतिगुरुण्यपि मात्रा मेवापेचन्ते ॥ ३ ॥
न चैवमुक्ते द्रव्ये गुरुलाघवमकारणं मन्येत । लघुनि हि द्रव्याणि वाय्वग्निगुणबहुलानि भवन्ति, पृथिवीसोमगुणबहुला
२७७
For Private and Personal Use Only
तथा पिष्टेत्यादीनि प्रकृतिगुरूणि अपिना संस्कारगुरूणि च मात्रामेवापेक्षन्ते त्वग्निबलापेक्षिणी मात्रा गुरुलाघवं द्रव्याणामपेक्षते । पिष्टकादिविकाराणामेषामाहारद्रव्याणां कुक्षिप्रपीड़नादिजनकरूपेण परिमाणेनाभ्यवहृतानां यथाकालं जीर्णखाभावात । पिष्टं पिष्टविकृतिः भक्ष्यं, इक्षुविकृतिगु डादिः, क्षीरविकृतिदध्यादिः । विकृतिशब्दस्य त्रिभिः पिष्टादैरन्वयात् । आनूपौदकयोः पिशितम् | आदिशब्दोऽत्र प्रकारवाची, तेनैवंप्रकाराण्यपराणि शाल्यादिगणातिरिक्तानि ॥ ३॥
ननु शालिषष्टिकादीनि प्रकृतिलघूनि अमात्रयाऽभ्यवहृतान्यहिता नि प्रकृतिगुरूणि च पिष्ठेक्षुक्षीरविकारादीनि मात्रया हितानि स्युस्तानि यदि मात्रापेक्षन्ते तदा गुरुलाघवप्रतिसंज्ञान द्रव्याणामकारणं स्यादित्यत आहन चैवमित्यादि । एवमुक्तं प्रकृतिलघुगुरुद्रव्याणां मात्रापेक्षित्वे उक्त गुरुलाघवं द्रव्याणां गुरुत्वं लघुत्वञ्च न चाकारणं कारणमेव । गुरुश्च लघुश्च गुरुलघु तयोर्भाव इति । सुपञ्चालादिखादुत्तरपदादाच वृद्धौ गुरुलाघवमिति । द्रव्याणां गुरुलाघवस्याभ्यवहारविधावकारणत्वाभावे हेतुमाह - लघूनि हीत्यादि । वाय्वग्निगुणबहुलानि लघूनि द्रव्याणि भवन्ति । गुणबहुलानि च द्रव्याणि लघूनि भवन्त्यपि वह्निसन्धुक्षणाय न भवन्ति गगनस्याग्निसाधम्र्याभावादत उक्तं वाय्वग्निगुणबहुलानीति । इतराणि गुहशक्त पिण्डादिग्रहणं वाच्यम् । आदिशब्दोऽत्र प्रकारवाची शालिषटिकादिगणाभावात् । विकृतिशब्दः पिष्ठेक्षुक्षीरैः सम्बध्यते । क्षीरविकृतिः क्षीरकृता भक्ष्याः, पिशितमानूपौदकाभ्यां सम्बध्यते ॥ ३ ॥
आकाश
चक्रपाणिः -- ननु यदि लघु हितमपि स्वगुणकरणमेव मात्रामपेक्षते; गुरु चाहितमपि मात्रापरिगृहीतं हितमेव स्यात् तत् किं गौरवलाघवोपदेशेनेत्याशङ्कयाहइ-न चैवमित्यादि । लघूनि यद्यप्याकाशवाय्वग्निगुणबहुलानि स्युः, तथाप्याकाशस्याग्निदीपनं प्रति तथाविधसामर्थ्याभावात् वाय्वग्नयोस्त्वग्निदीपकत्वात् वाय्वग्निगुणबहुलानीत्युक्तं, तस्मात् कारणात् लघूनि मात्रा तावत् अग्निं दीपयन्ति, स्वगुणादपि वाय्वग्निगुणबाहुल्यादग्निसन्धुक्षणस्वभावानि स्युः ।