SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७६ चरक-संहिता। [ मात्राशितीयः तत्र शालिषष्टिक-मुद्गलाव-कपिञ्जलैणशश-शरभशम्बरादीन्याहारद्रव्याणि प्रकृतिलघून्यपि मात्रापेक्षीणि भवन्ति । सनशयनगमनोच्छाससंकथासु सुखानुवृत्त्या च बोध्यम् । यथाकाले जरणन्तु सायं प्रातश्च सुखेन परिणामेन जीर्णाहारलक्षणैोध्यमिति । यद्यप्येकस्मिन्नेव पुरुष हेमन्तादि-यौवनादिकालभेदेनाग्निबलभेदो भवति, तथापि कियन्तमपि कालमेकमात्रावधाय॑तयैव मात्रयाऽग्निभेदहेखभावे सति व्यवहारो भवतीति कश्चित् । वस्तुतो यदा यथाग्निबलं तदा तथैव प्रकृत्यनुपहननयथाकालजरणयोग्यया मात्रयाऽश्नीयादिति बोध्यम् ॥२॥ गङ्गाधरः-ननु शालिपष्टिकादिकं प्रकृतिलघु द्रव्यं यत्परिमाणेनाभ्यवहृतं यावत्कालेन यस्यानुपहत्य प्रकृतिं जरां याति न तावत् कालेन तन्मितं पिष्टेक्षुक्षीरविकारादिकं प्रकृतिगुरु द्रव्यमशितमित्यतो गुरुलाघवापेक्षिण्यपि मात्रा भवति न केवलमग्निवलापेक्षिणी स्यादिति प्रतिपक्षस्य प्रतिष्ठापनामाशङ्कयाह तत्रेत्यादि । तत्राभ्यवहारेऽभ्यवहाय्येषु सर्वेषु मध्ये शालिहमन्तिकशूकधान्यं, षष्टिकं पष्टिदिनभवं वार्षिकं शूकधान्यं, लावः पक्षिविशेषः, कपिञ्जलो गौरतित्तिरिः, एणः कृष्णसारः, शशः शशकः, शरभो महाशृङ्गो हरिणः, शम्बरस्तद्विशेषः। इत्यादीनि प्रकृतिलघून्यप्याहारद्रव्याणि, अपिना संस्कारलघूनि लाजादीनि च मात्रापेक्षीणि भवन्तीति। पेयादिविकारीभूतानां लघूनामाहारद्रव्याणां कुक्षिप्रपीड़नादिजनकपरिमाणेनाभ्यवहाण यथाकालं जराप्राप्ताभावात् । आदिशब्दनप्रकाराण्यान्यान्यपीति बाध्यम् । प्रकरणादेव लभ्यते, तत् पुनः क्रियते विशेषप्रतिपादनार्थं ; तेन “अस्य" इत्यनेन परीक्षको भोक्ताऽधिक्रियते, “अशनम्" इत्यनेन च प्रशस्तमशनं प्रकृतिकरणसंयोगदेशकालाविरुद्धमुच्यते, 'अशितम् इत्यनेन च यथाविधि भोजनमुच्यते ; तदेवं सर्वगुणसम्पन आहारो मात्रावानुच्यते ॥ २॥ चक्रपाणिः----मात्रालक्षणमुपदिश्य व्यवहारोपयोगिनं द्रव्यभेदेन मात्राभेदं दर्शयति-तत्र शालीत्यादि। अत्र लवर्ग एव प्रथमं पठ्यते पथ्यतमत्वात् ; तत्राप्यादौ रक्तशालिराहारद्रव्यप्राधान्यात् । कपिञ्जलो गौरतित्तिरिः, एण: कृष्णसारः, शरभो महाशृङ्गो हरिणः, शम्बरस्तद्विशेषः । अन्नपानविधौ “शीतः स्निग्धोऽगुरुः स्वादुः” इति पष्टिकगुणकथने “अगुरुः” इत्यकारप्रश्लेषो द्रव्यः , तेनेह परिकस्य लघुत्वप्रतिपादनं न विरुध्यते। अपि समुच्चये, तेन प्रकृतिलघूनि करणलघूनि च लाजादोनि मात्रापेक्षीणि भवन्तीति लक्ष्यते। एवं प्रकृतिगुरूणि, अत्रापि संस्कार For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy